Sūkta 35
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Nara Bhāradvāja
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles triṣṭup (4, 5); virāṭtrisṭup (1); paṅktiḥ (2); nicṛttriṣṭup (3)
2nd set of styles triṣṭubh
-
Ṛk 1
क॒दा भु॑व॒न्रथ॑क्षयाणि॒ ब्रह्म॑ क॒दा स्तो॒त्रे स॑हस्रपो॒ष्यं॑ दाः ।
क॒दा स्तोमं॑ वासयोऽस्य रा॒या क॒दा धियः॑ करसि॒ वाज॑रत्नाः ॥कदा भुवन् रथक्षयाणि ब्रह्म कदा स्तोत्रे सहस्रपोष्यं दाः |
कदा स्तोमं वासयो ऽस्य राया कदा धियः करसि वाजरत्नाः ||kadā́ bhuvanráthakṣayāṇi bráhma kadā́ stotré sahasrapoṣyám dāḥ ǀ
kadā́ stómam vāsayo’sya rāyā́ kadā́ dhíyaḥ karasi vā́jaratnāḥ ǁkadā bhuvan rathakṣayāṇi brahma kadā stotre sahasrapoṣyaṃ dāḥ |
kadā stomaṃ vāsayo 'sya rāyā kadā dhiyaḥ karasi vājaratnāḥ ||क॒दा । भु॒व॒न् । रथ॑ऽक्षयाणि । ब्रह्म॑ । क॒दा । स्तो॒त्रे । स॒ह॒स्र॒ऽपो॒ष्य॑म् । दाः॒ ।
क॒दा । स्तोम॑म् । वा॒स॒यः॒ । अ॒स्य॒ । रा॒या । क॒दा । धियः॑ । क॒र॒सि॒ । वाज॑ऽरत्नाः ॥कदा । भुवन् । रथऽक्षयाणि । ब्रह्म । कदा । स्तोत्रे । सहस्रऽपोष्यम् । दाः ।
कदा । स्तोमम् । वासयः । अस्य । राया । कदा । धियः । करसि । वाजऽरत्नाः ॥kadā́ ǀ bhuvan ǀ rátha-kṣayāṇi ǀ bráhma ǀ kadā́ ǀ stotré ǀ sahasra-poṣyám ǀ dāḥ ǀ
kadā́ ǀ stómam ǀ vāsayaḥ ǀ asya ǀ rāyā́ ǀ kadā́ ǀ dhíyaḥ ǀ karasi ǀ vā́ja-ratnāḥ ǁkadā ǀ bhuvan ǀ ratha-kṣayāṇi ǀ brahma ǀ kadā ǀ stotre ǀ sahasra-poṣyam ǀ dāḥ ǀ
kadā ǀ stomam ǀ vāsayaḥ ǀ asya ǀ rāyā ǀ kadā ǀ dhiyaḥ ǀ karasi ǀ vāja-ratnāḥ ǁ6.35.1 Aṣṭaka 4.7.7.1Anuvāka 6.3.75
-
Ṛk 2
कर्हि॑ स्वि॒त्तदिं॑द्र॒ यन्नृभि॒र्नॄन्वी॒रैर्वी॒रान्नी॒ळया॑से॒ जया॒जीन् ।
त्रि॒धातु॒ गा अधि॑ जयासि॒ गोष्विंद्र॑ द्यु॒म्नं स्व॑र्वद्धेह्य॒स्मे ॥कर्हि स्वित् तद् इन्द्र यन् नृभिर् नॄन् वीरैर् वीरान् नीऌअयासे जयाजीन् |
त्रिधातु गा अधि जयासि गोष्व् इन्द्र द्युम्नं स्वर्वद् धेह्य् अस्मे ||kárhi svittádindra yánnṛ́bhirnṝ́nvīráirvīrā́nnīḷáyāse jáyājī́n ǀ
tridhā́tu gā́ ádhi jayāsi góṣvíndra dyumnám svárvaddhehyasmé ǁkarhi svit tad indra yan nṛbhir nṝn vīrair vīrān nīḷayāse jayājīn |
tridhātu gā adhi jayāsi goṣv indra dyumnaṃ svarvad dhehy asme ||कर्हि॑ । स्वि॒त् । तत् । इ॒न्द्र॒ । यत् । नृऽभिः॑ । नॄन् । वी॒रैः । वी॒रान् । नी॒ळया॑से । जय॑ । आ॒जीन् ।
त्रि॒ऽधातु॑ । गाः । अधि॑ । ज॒या॒सि॒ । गोषु॑ । इन्द्र॑ । द्यु॒म्नम् । स्वः॑ऽवत् । धे॒हि॒ । अ॒स्मे इति॑ ॥कर्हि । स्वित् । तत् । इन्द्र । यत् । नृऽभिः । नॄन् । वीरैः । वीरान् । नीळयासे । जय । आजीन् ।
त्रिऽधातु । गाः । अधि । जयासि । गोषु । इन्द्र । द्युम्नम् । स्वःऽवत् । धेहि । अस्मे इति ॥kárhi ǀ svit ǀ tát ǀ indra ǀ yát ǀ nṛ́-bhiḥ ǀ nṝ́n ǀ vīráiḥ ǀ vīrā́n ǀ nīḷáyāse ǀ jáya ǀ ājī́n ǀ
tri-dhā́tu ǀ gā́ḥ ǀ ádhi ǀ jayāsi ǀ góṣu ǀ índra ǀ dyumnám ǀ sváḥ-vat ǀ dhehi ǀ asmé íti ǁkarhi ǀ svit ǀ tat ǀ indra ǀ yat ǀ nṛ-bhiḥ ǀ nṝn ǀ vīraiḥ ǀ vīrān ǀ nīḷayāse ǀ jaya ǀ ājīn ǀ
tri-dhātu ǀ gāḥ ǀ adhi ǀ jayāsi ǀ goṣu ǀ indra ǀ dyumnam ǀ svaḥ-vat ǀ dhehi ǀ asme iti ǁ6.35.2 Aṣṭaka 4.7.7.2Anuvāka 6.3.76
-
Ṛk 3
कर्हि॑ स्वि॒त्तदिं॑द्र॒ यज्ज॑रि॒त्रे वि॒श्वप्सु॒ ब्रह्म॑ कृ॒णवः॑ शविष्ठ ।
क॒दा धियो॒ न नि॒युतो॑ युवासे क॒दा गोम॑घा॒ हव॑नानि गच्छाः ॥कर्हि स्वित् तद् इन्द्र यज् जरित्रे विश्वप्सु ब्रह्म कृणवः शविष्ठ |
कदा धियो न नियुतो युवासे कदा गोमघा हवनानि गच्छाः ||kárhi svittádindra yájjaritré viśvápsu bráhma kṛṇávaḥ śaviṣṭha ǀ
kadā́ dhíyo ná niyúto yuvāse kadā́ gómaghā hávanāni gacchāḥ ǁkarhi svit tad indra yaj jaritre viśvapsu brahma kṛṇavaḥ śaviṣṭha |
kadā dhiyo na niyuto yuvāse kadā gomaghā havanāni gacchāḥ ||कर्हि॑ । स्वि॒त् । तत् । इ॒न्द्र॒ । यत् । ज॒रि॒त्रे । वि॒श्वऽप्सु॑ । ब्रह्म॑ । कृ॒णवः॑ । श॒वि॒ष्ठ॒ ।
क॒दा । धियः॑ । न । नि॒ऽयुतः॑ । यु॒वा॒से॒ । क॒दा । गोऽम॑घा । हव॑नानि । ग॒च्छाः॒ ॥कर्हि । स्वित् । तत् । इन्द्र । यत् । जरित्रे । विश्वऽप्सु । ब्रह्म । कृणवः । शविष्ठ ।
कदा । धियः । न । निऽयुतः । युवासे । कदा । गोऽमघा । हवनानि । गच्छाः ॥kárhi ǀ svit ǀ tát ǀ indra ǀ yát ǀ jaritré ǀ viśvá-psu ǀ bráhma ǀ kṛṇávaḥ ǀ śaviṣṭha ǀ
kadā́ ǀ dhíyaḥ ǀ ná ǀ ni-yútaḥ ǀ yuvāse ǀ kadā́ ǀ gó-maghā ǀ hávanāni ǀ gacchāḥ ǁkarhi ǀ svit ǀ tat ǀ indra ǀ yat ǀ jaritre ǀ viśva-psu ǀ brahma ǀ kṛṇavaḥ ǀ śaviṣṭha ǀ
kadā ǀ dhiyaḥ ǀ na ǀ ni-yutaḥ ǀ yuvāse ǀ kadā ǀ go-maghā ǀ havanāni ǀ gacchāḥ ǁ6.35.3 Aṣṭaka 4.7.7.3Anuvāka 6.3.77
-
Ṛk 4
स गोम॑घा जरि॒त्रे अश्व॑श्चंद्रा॒ वाज॑श्रवसो॒ अधि॑ धेहि॒ पृक्षः॑ ।
पी॒पि॒हीषः॑ सु॒दुघा॑मिंद्र धे॒नुं भ॒रद्वा॑जेषु सु॒रुचो॑ रुरुच्याः ॥स गोमघा जरित्रे अश्वश्चन्द्रा वाजश्रवसो अधि धेहि पृक्षः |
पीपिहीषः सुदुघाम् इन्द्र धेनुम् भरद्वाजेषु सुरुचो रुरुच्याः ||sá gómaghā jaritré áśvaścandrā vā́jaśravaso ádhi dhehi pṛ́kṣaḥ ǀ
pīpihī́ṣaḥ sudúghāmindra dhenúm bharádvājeṣu surúco rurucyāḥ ǁsa gomaghā jaritre aśvaścandrā vājaśravaso adhi dhehi pṛkṣaḥ |
pīpihīṣaḥ sudughām indra dhenum bharadvājeṣu suruco rurucyāḥ ||सः । गोऽम॑घाः । ज॒रि॒त्रे । अश्व॑ऽचन्द्राः । वाज॑ऽश्रवसः । अधि॑ । धे॒हि॒ । पृक्षः॑ ।
पी॒पि॒हि । इषः॑ । सु॒ऽदुघा॑म् । इ॒न्द्र॒ । धे॒नुम् । भ॒रत्ऽवा॑जेषु । सु॒ऽरुचः॑ । रु॒रु॒च्याः॒ ॥सः । गोऽमघाः । जरित्रे । अश्वऽचन्द्राः । वाजऽश्रवसः । अधि । धेहि । पृक्षः ।
पीपिहि । इषः । सुऽदुघाम् । इन्द्र । धेनुम् । भरत्ऽवाजेषु । सुऽरुचः । रुरुच्याः ॥sáḥ ǀ gó-maghāḥ ǀ jaritré ǀ áśva-candrāḥ ǀ vā́ja-śravasaḥ ǀ ádhi ǀ dhehi ǀ pṛ́kṣaḥ ǀ
pīpihí ǀ íṣaḥ ǀ su-dúghām ǀ indra ǀ dhenúm ǀ bharát-vājeṣu ǀ su-rúcaḥ ǀ rurucyāḥ ǁsaḥ ǀ go-maghāḥ ǀ jaritre ǀ aśva-candrāḥ ǀ vāja-śravasaḥ ǀ adhi ǀ dhehi ǀ pṛkṣaḥ ǀ
pīpihi ǀ iṣaḥ ǀ su-dughām ǀ indra ǀ dhenum ǀ bharat-vājeṣu ǀ su-rucaḥ ǀ rurucyāḥ ǁ6.35.4 Aṣṭaka 4.7.7.4Anuvāka 6.3.78
-
Ṛk 5
तमा नू॒नं वृ॒जन॑म॒न्यथा॑ चि॒च्छूरो॒ यच्छ॑क्र॒ वि दुरो॑ गृणी॒षे ।
मा निर॑रं शुक्र॒दुघ॑स्य धे॒नोरां॑गिर॒सान्ब्रह्म॑णा विप्र जिन्व ॥तम् आ नूनं वृजनम् अन्यथा चिच् छूरो यच् छक्र वि दुरो गृणीषे |
मा निर् अरं शुक्रदुघस्य धेनोर् आङ्गिरसान् ब्रह्मणा विप्र जिन्व ||támā́ nūnám vṛjánamanyáthā cicchū́ro yácchakra ví dúro gṛṇīṣé ǀ
mā́ níraram śukradúghasya dhenórāṅgirasā́nbráhmaṇā vipra jinva ǁtam ā nūnaṃ vṛjanam anyathā cic chūro yac chakra vi duro gṛṇīṣe |
mā nir araṃ śukradughasya dhenor āṅgirasān brahmaṇā vipra jinva ||तम् । आ । नू॒नम् । वृ॒जन॑म् । अ॒न्यथा॑ । चि॒त् । शूरः॑ । यत् । श॒क्र॒ । वि । दुरः॑ । गृ॒णी॒षे ।
मा । निः । अ॒र॒म् । शु॒क्र॒ऽदुघ॑स्य । धे॒नोः । आ॒ङ्गि॒र॒सान् । ब्रह्म॑णा । वि॒प्र॒ । जि॒न्व॒ ॥तम् । आ । नूनम् । वृजनम् । अन्यथा । चित् । शूरः । यत् । शक्र । वि । दुरः । गृणीषे ।
मा । निः । अरम् । शुक्रऽदुघस्य । धेनोः । आङ्गिरसान् । ब्रह्मणा । विप्र । जिन्व ॥tám ǀ ā́ ǀ nūnám ǀ vṛjánam ǀ anyáthā ǀ cit ǀ śū́raḥ ǀ yát ǀ śakra ǀ ví ǀ dúraḥ ǀ gṛṇīṣé ǀ
mā́ ǀ níḥ ǀ aram ǀ śukra-dúghasya ǀ dhenóḥ ǀ āṅgirasā́n ǀ bráhmaṇā ǀ vipra ǀ jinva ǁtam ǀ ā ǀ nūnam ǀ vṛjanam ǀ anyathā ǀ cit ǀ śūraḥ ǀ yat ǀ śakra ǀ vi ǀ duraḥ ǀ gṛṇīṣe ǀ
mā ǀ niḥ ǀ aram ǀ śukra-dughasya ǀ dhenoḥ ǀ āṅgirasān ǀ brahmaṇā ǀ vipra ǀ jinva ǁ6.35.5 Aṣṭaka 4.7.7.5Anuvāka 6.3.79
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.