Ṛgveda · Maṇḍala 6 · Sūkta 35

Ṛk 6.35.5

Indra · Nara Bhāradvāja

The whole sūkta Link

Saṃhitā

तमा नू॒नं वृ॒जन॑म॒न्यथा॑ चि॒च्छूरो॒ यच्छ॑क्र॒ वि दुरो॑ गृणी॒षे ।
मा निर॑रं शुक्र॒दुघ॑स्य धे॒नोरां॑गिर॒सान्ब्रह्म॑णा विप्र जिन्व ॥

तम् आ नूनं वृजनम् अन्यथा चिच् छूरो यच् छक्र वि दुरो गृणीषे |
मा निर् अरं शुक्रदुघस्य धेनोर् आङ्गिरसान् ब्रह्मणा विप्र जिन्व ||

támā́ nūnám vṛjánamanyáthā cicchū́ro yácchakra ví dúro gṛṇīṣé ǀ
mā́ níraram śukradúghasya dhenórāṅgirasā́nbráhmaṇā vipra jinva ǁ

tam ā nūnaṃ vṛjanam anyathā cic chūro yac chakra vi duro gṛṇīṣe |
mā nir araṃ śukradughasya dhenor āṅgirasān brahmaṇā vipra jinva ||

Padapāṭha

तम् । आ । नू॒नम् । वृ॒जन॑म् । अ॒न्यथा॑ । चि॒त् । शूरः॑ । यत् । श॒क्र॒ । वि । दुरः॑ । गृ॒णी॒षे ।
मा । निः । अ॒र॒म् । शु॒क्र॒ऽदुघ॑स्य । धे॒नोः । आ॒ङ्गि॒र॒सान् । ब्रह्म॑णा । वि॒प्र॒ । जि॒न्व॒ ॥

तम् । आ । नूनम् । वृजनम् । अन्यथा । चित् । शूरः । यत् । शक्र । वि । दुरः । गृणीषे ।
मा । निः । अरम् । शुक्रऽदुघस्य । धेनोः । आङ्गिरसान् । ब्रह्मणा । विप्र । जिन्व ॥

tám ǀ ā́ ǀ nūnám ǀ vṛjánam ǀ anyáthā ǀ cit ǀ śū́raḥ ǀ yát ǀ śakra ǀ ví ǀ dúraḥ ǀ gṛṇīṣé ǀ
mā́ ǀ níḥ ǀ aram ǀ śukra-dúghasya ǀ dhenóḥ ǀ āṅgirasā́n ǀ bráhmaṇā ǀ vipra ǀ jinva ǁ

tam ǀ ā ǀ nūnam ǀ vṛjanam ǀ anyathā ǀ cit ǀ śūraḥ ǀ yat ǀ śakra ǀ vi ǀ duraḥ ǀ gṛṇīṣe ǀ
mā ǀ niḥ ǀ aram ǀ śukra-dughasya ǀ dhenoḥ ǀ āṅgirasān ǀ brahmaṇā ǀ vipra ǀ jinva ǁ

References

Maṇḍala · Sūkta · Ṛk
06.035.05
Aṣṭaka · Adhyāya · Varga · Ṛk
4.7.07.05
Maṇḍala · Anuvāka · Ṛk
06.03.079
Devatā देवता
Indra
Ṛṣi ऋषि
Nara Bhāradvāja
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 6.35.5

Interpretations

Sāyaṇa

सत्रामदासइतिपंचर्चंत्रयोदशंसूक्तं नरस्यार्षं त्रैष्टुभमैन्द्रं सत्रेत्यनुक्रान्तं पृष्ठ्यस्यपंचमेहनिनिष्केवल्यएतत्सूक्तंशस्यं सूत्रितंच—प्रेदंब्र- ह्मइन्द्रोमदायसत्रामदासइतिनिष्केवल्यमिति । विश्वजितिमाध्यंदिनसवने प्रशास्तुःशस्त्रे इदं सामसूक्ताख्यंशंसनीयं सूत्रितंच—सत्रामदा- सोयोजातएवा भूरेकइतिसामसूक्तानीति । महाव्रतेपिनिष्केवल्येउक्तोविनियोगः ।