Ṛk 6.73.3
Saṃhitā
बृह॒स्पतिः॒ सम॑जय॒द्वसू॑नि म॒हो व्र॒जान् गोम॑तो दे॒व ए॒षः ।
अ॒पः सिषा॑स॒न्त्स्व१॒॑रप्र॑तीतो॒ बृह॒स्पति॒र्हंत्य॒मित्र॑म॒र्कैः ॥
बृहस्पतिः सम् अजयद् वसूनि महो व्रजान् गोमतो देव एषः |
अपः सिषासन् स्वर् अप्रतीतो बृहस्पतिर् हन्त्य् अमित्रम् अर्कैः ||
bṛ́haspátiḥ sámajayadvásūni mahó vrajā́n gómato devá eṣáḥ ǀ
apáḥ síṣāsantsvárápratīto bṛ́haspátirhántyamítramarkáiḥ ǁ
bṛhaspatiḥ sam ajayad vasūni maho vrajān gomato deva eṣaḥ |
apaḥ siṣāsan svar apratīto bṛhaspatir hanty amitram arkaiḥ ||
Padapāṭha
बृह॒स्पतिः॑ । सम् । अ॒ज॒य॒त् । वसू॑नि । म॒हः । व्र॒जान् । गोऽम॑तः । दे॒वः । ए॒षः ।
अ॒पः । सिसा॑सन् । स्वः॑ । अप्र॑तिऽइतः । बृह॒स्पतिः॑ । हन्ति॑ । अ॒मित्र॑म् । अ॒र्कैः ॥
बृहस्पतिः । सम् । अजयत् । वसूनि । महः । व्रजान् । गोऽमतः । देवः । एषः ।
अपः । सिसासन् । स्वः । अप्रतिऽइतः । बृहस्पतिः । हन्ति । अमित्रम् । अर्कैः ॥
bṛ́haspátiḥ ǀ sám ǀ ajayat ǀ vásūni ǀ maháḥ ǀ vrajā́n ǀ gó-mataḥ ǀ deváḥ ǀ eṣáḥ ǀ
apáḥ ǀ sísāsan ǀ sváḥ ǀ áprati-itaḥ ǀ bṛ́haspátiḥ ǀ hánti ǀ amítram ǀ arkáiḥ ǁ
bṛhaspatiḥ ǀ sam ǀ ajayat ǀ vasūni ǀ mahaḥ ǀ vrajān ǀ go-mataḥ ǀ devaḥ ǀ eṣaḥ ǀ
apaḥ ǀ sisāsan ǀ svaḥ ǀ aprati-itaḥ ǀ bṛhaspatiḥ ǀ hanti ǀ amitram ǀ arkaiḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.073.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.1.17.03
- Maṇḍala · Anuvāka · Ṛk
- 06.06.095
- Devatā देवता
- Bṛhaspati
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.