Ṛk 6.73.2
Saṃhitā
जना॑य चि॒द्य ईव॑त उ लो॒कं बृह॒स्पति॑र्दे॒वहू॑तौ च॒कार॑ ।
घ्नन्वृ॒त्राणि॒ वि पुरो॑ दर्दरीति॒ जय॒ञ्छत्रूँ॑र॒मित्रा॑न्पृ॒त्सु साह॑न् ॥
जनाय चिद् य ईवत उ लोकम् बृहस्पतिर् देवहूतौ चकार |
घ्नन् वृत्राणि वि पुरो दर्दरीति जयञ् छत्रूंर् अमित्रान् पृत्सु साहन् ||
jánāya cidyá ī́vata u lokám bṛ́haspátirdeváhūtau cakā́ra ǀ
ghnánvṛtrā́ṇi ví púro dardarīti jáyañchátrūm̐ramítrānpṛtsú sā́han ǁ
janāya cid ya īvata u lokam bṛhaspatir devahūtau cakāra |
ghnan vṛtrāṇi vi puro dardarīti jayañ chatrūṃr amitrān pṛtsu sāhan ||
Padapāṭha
जना॑य । चि॒त् । यः । ईव॑ते । ऊं॒ इति॑ । लो॒कम् । बृह॒स्पतिः॑ । दे॒वऽहू॑तौ । च॒कार॑ ।
घ्नन् । वृ॒त्राणि॑ । वि । पुरः॑ । द॒र्द॒री॒ति॒ । जय॑न् । शत्रू॑न् । अ॒मित्रा॑न् । पृ॒त्ऽसु । सह॑न् ॥
जनाय । चित् । यः । ईवते । ऊं इति । लोकम् । बृहस्पतिः । देवऽहूतौ । चकार ।
घ्नन् । वृत्राणि । वि । पुरः । दर्दरीति । जयन् । शत्रून् । अमित्रान् । पृत्ऽसु । सहन् ॥
jánāya ǀ cit ǀ yáḥ ǀ ī́vate ǀ ūṃ íti ǀ lokám ǀ bṛ́haspátiḥ ǀ devá-hūtau ǀ cakā́ra ǀ
ghnán ǀ vṛtrā́ṇi ǀ ví ǀ púraḥ ǀ dardarīti ǀ jáyan ǀ śátrūn ǀ amítrān ǀ pṛt-sú ǀ sáhan ǁ
janāya ǀ cit ǀ yaḥ ǀ īvate ǀ ūṃ iti ǀ lokam ǀ bṛhaspatiḥ ǀ deva-hūtau ǀ cakāra ǀ
ghnan ǀ vṛtrāṇi ǀ vi ǀ puraḥ ǀ dardarīti ǀ jayan ǀ śatrūn ǀ amitrān ǀ pṛt-su ǀ sahan ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.073.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.1.17.02
- Maṇḍala · Anuvāka · Ṛk
- 06.06.094
- Devatā देवता
- Bṛhaspati
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.