Ṛk 6.66.4
Saṃhitā
न य ईषं॑ते ज॒नुषोऽया॒ न्वं१॒॑तः संतो॑ऽव॒द्यानि॑ पुना॒नाः ।
निर्यद्दु॒ह्रे शुच॒योऽनु॒ जोष॒मनु॑ श्रि॒या त॒न्व॑मु॒क्षमा॑णाः ॥
न य ईषन्ते जनुषो ऽया न्व् अन्तः सन्तो ऽवद्यानि पुनानाः |
निर् यद् दुह्रे शुचयो ऽनु जोषम् अनु श्रिया तन्वम् उक्षमाणाः ||
ná yá ī́ṣante janúṣó’yā nvántáḥ sánto’vadyā́ni punānā́ḥ ǀ
níryádduhré śúcayó’nu jóṣamánu śriyā́ tanvámukṣámāṇāḥ ǁ
na ya īṣante januṣo 'yā nv antaḥ santo 'vadyāni punānāḥ |
nir yad duhre śucayo 'nu joṣam anu śriyā tanvam ukṣamāṇāḥ ||
Padapāṭha
न । ये । ईष॑न्ते । ज॒नुषः॑ । अया॑ । नु । अ॒न्तरिति॑ । सन्तः॑ । अ॒व॒द्यानि॑ । पु॒ना॒नाः ।
निः । यत् । दु॒ह्रे । शुच॑यः । अनु॑ । जोष॑म् । अनु॑ । श्रि॒या । त॒न्व॑म् । उ॒क्षमा॑णाः ॥
न । ये । ईषन्ते । जनुषः । अया । नु । अन्तरिति । सन्तः । अवद्यानि । पुनानाः ।
निः । यत् । दुह्रे । शुचयः । अनु । जोषम् । अनु । श्रिया । तन्वम् । उक्षमाणाः ॥
ná ǀ yé ǀ ī́ṣante ǀ janúṣaḥ ǀ áyā ǀ nú ǀ antáríti ǀ sántaḥ ǀ avadyā́ni ǀ punānā́ḥ ǀ
níḥ ǀ yát ǀ duhré ǀ śúcayaḥ ǀ ánu ǀ jóṣam ǀ ánu ǀ śriyā́ ǀ tanvám ǀ ukṣámāṇāḥ ǁ
na ǀ ye ǀ īṣante ǀ januṣaḥ ǀ ayā ǀ nu ǀ antariti ǀ santaḥ ǀ avadyāni ǀ punānāḥ ǀ
niḥ ǀ yat ǀ duhre ǀ śucayaḥ ǀ anu ǀ joṣam ǀ anu ǀ śriyā ǀ tanvam ǀ ukṣamāṇāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.066.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.1.07.04
- Maṇḍala · Anuvāka · Ṛk
- 06.06.038
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.