Ṛk 6.67.1
Saṃhitā
विश्वे॑षां वः स॒तां ज्येष्ठ॑तमा गी॒र्भिर्मि॒त्रावरु॑णा वावृ॒धध्यै॑ ।
सं या र॒श्मेव॑ य॒मतु॒र्यमि॑ष्ठा॒ द्वा जनाँ॒ अस॑मा बा॒हुभिः॒ स्वैः ॥
विश्वेषां वः सतां ज्येष्ठतमा गीर्भिर् मित्रावरुणा वावृधध्यै |
सं या रश्मेव यमतुर् यमिष्ठा द्वा जनां असमा बाहुभिः स्वैः ||
víśveṣām vaḥ satā́m jyéṣṭhatamā gīrbhírmitrā́váruṇā vāvṛdhádhyai ǀ
sám yā́ raśméva yamáturyámiṣṭhā dvā́ jánām̐ ásamā bāhúbhiḥ sváiḥ ǁ
viśveṣāṃ vaḥ satāṃ jyeṣṭhatamā gīrbhir mitrāvaruṇā vāvṛdhadhyai |
saṃ yā raśmeva yamatur yamiṣṭhā dvā janāṃ asamā bāhubhiḥ svaiḥ ||
Padapāṭha
विश्वे॑षाम् । वः॒ । स॒ताम् । ज्येष्ठ॑ऽतमा । गीः॒ऽभिः । मि॒त्रावरु॑णा । व॒वृ॒धध्यै॑ ।
सम् । या । र॒श्माऽइ॑व । य॒मतुः॑ । यमि॑ष्ठा । द्वा । जना॑न् । अस॑मा । बा॒हुऽभिः॑ । स्वैः ॥
विश्वेषाम् । वः । सताम् । ज्येष्ठऽतमा । गीःऽभिः । मित्रावरुणा । ववृधध्यै ।
सम् । या । रश्माऽइव । यमतुः । यमिष्ठा । द्वा । जनान् । असमा । बाहुऽभिः । स्वैः ॥
víśveṣām ǀ vaḥ ǀ satā́m ǀ jyéṣṭha-tamā ǀ gīḥ-bhíḥ ǀ mitrā́váruṇā ǀ vavṛdhádhyai ǀ
sám ǀ yā́ ǀ raśmā́-iva ǀ yamátuḥ ǀ yámiṣṭhā ǀ dvā́ ǀ jánān ǀ ásamā ǀ bāhú-bhiḥ ǀ sváiḥ ǁ
viśveṣām ǀ vaḥ ǀ satām ǀ jyeṣṭha-tamā ǀ gīḥ-bhiḥ ǀ mitrāvaruṇā ǀ vavṛdhadhyai ǀ
sam ǀ yā ǀ raśmā-iva ǀ yamatuḥ ǀ yamiṣṭhā ǀ dvā ǀ janān ǀ asamā ǀ bāhu-bhiḥ ǀ svaiḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.067.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.1.09.01
- Maṇḍala · Anuvāka · Ṛk
- 06.06.046
- Devatā देवता
- Mitra, Varuṇa
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.