Ṛk 6.67.5
Saṃhitā
विश्वे॒ यद्वां॑ मं॒हना॒ मंद॑मानाः क्ष॒त्रं दे॒वासो॒ अद॑धुः स॒जोषाः॑ ।
परि॒ यद्भू॒थो रोद॑सी चिदु॒र्वी संति॒ स्पशो॒ अद॑ब्धासो॒ अमू॑राः ॥
विश्वे यद् वाम् मंहना मन्दमानाः क्षत्रं देवासो अदधुः सजोषाः |
परि यद् भूथो रोदसी चिद् उर्वी सन्ति स्पशो अदब्धासो अमूराः ||
víśve yádvām maṃhánā mándamānāḥ kṣatrám devā́so ádadhuḥ sajóṣāḥ ǀ
pári yádbhūthó ródasī cidurvī́ sánti spáśo ádabdhāso ámūrāḥ ǁ
viśve yad vām maṃhanā mandamānāḥ kṣatraṃ devāso adadhuḥ sajoṣāḥ |
pari yad bhūtho rodasī cid urvī santi spaśo adabdhāso amūrāḥ ||
Padapāṭha
विश्वे॑ । यत् । वा॒म् । मं॒हना॑ । मन्द॑मानाः । क्ष॒त्रम् । दे॒वासः॑ । अद॑धुः । स॒ऽजोषाः॑ ।
परि॑ । यत् । भू॒थः । रोद॑सी॒ इति॑ । चि॒त् । उ॒र्वी इति॑ । सन्ति॑ । स्पशः॑ । अद॑ब्धासः । अमू॑राः ॥
विश्वे । यत् । वाम् । मंहना । मन्दमानाः । क्षत्रम् । देवासः । अदधुः । सऽजोषाः ।
परि । यत् । भूथः । रोदसी इति । चित् । उर्वी इति । सन्ति । स्पशः । अदब्धासः । अमूराः ॥
víśve ǀ yát ǀ vām ǀ maṃhánā ǀ mándamānāḥ ǀ kṣatrám ǀ devā́saḥ ǀ ádadhuḥ ǀ sa-jóṣāḥ ǀ
pári ǀ yát ǀ bhūtháḥ ǀ ródasī íti ǀ cit ǀ urvī́ íti ǀ sánti ǀ spáśaḥ ǀ ádabdhāsaḥ ǀ ámūrāḥ ǁ
viśve ǀ yat ǀ vām ǀ maṃhanā ǀ mandamānāḥ ǀ kṣatram ǀ devāsaḥ ǀ adadhuḥ ǀ sa-joṣāḥ ǀ
pari ǀ yat ǀ bhūthaḥ ǀ rodasī iti ǀ cit ǀ urvī iti ǀ santi ǀ spaśaḥ ǀ adabdhāsaḥ ǀ amūrāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.067.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.1.09.05
- Maṇḍala · Anuvāka · Ṛk
- 06.06.050
- Devatā देवता
- Mitra, Varuṇa
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.