Ṛk 6.13.2
Saṃhitā
त्वं भगो॑ न॒ आ हि रत्न॑मि॒षे परि॑ज्मेव क्षयसि द॒स्मव॑र्चाः ।
अग्ने॑ मि॒त्रो न बृ॑ह॒त ऋ॒तस्यासि॑ क्ष॒त्ता वा॒मस्य॑ देव॒ भूरेः॑ ॥
त्वम् भगो न आ हि रत्नम् इषे परिज्मेव क्षयसि दस्मवर्चाः |
अग्ने मित्रो न बृहत ऋतस्यासि क्षत्ता वामस्य देव भूरेः ||
tvám bhágo na ā́ hí rátnamiṣé párijmeva kṣayasi dasmávarcāḥ ǀ
ágne mitró ná bṛhatá ṛtásyā́si kṣattā́ vāmásya deva bhū́reḥ ǁ
tvam bhago na ā hi ratnam iṣe parijmeva kṣayasi dasmavarcāḥ |
agne mitro na bṛhata ṛtasyāsi kṣattā vāmasya deva bhūreḥ ||
Padapāṭha
त्वम् । भगः॑ । नः॒ । आ । हि । रत्न॑म् । इ॒षे । परि॑ज्माऽइव । क्ष॒य॒सि॒ । द॒स्मऽव॑र्चाः ।
अग्ने॑ । मि॒त्रः । न । बृ॒ह॒तः । ऋ॒तस्य॑ । असि॑ । क्ष॒त्ता । वा॒मस्य॑ । दे॒व॒ । भूरेः॑ ॥
त्वम् । भगः । नः । आ । हि । रत्नम् । इषे । परिज्माऽइव । क्षयसि । दस्मऽवर्चाः ।
अग्ने । मित्रः । न । बृहतः । ऋतस्य । असि । क्षत्ता । वामस्य । देव । भूरेः ॥
tvám ǀ bhágaḥ ǀ naḥ ǀ ā́ ǀ hí ǀ rátnam ǀ iṣé ǀ párijmā-iva ǀ kṣayasi ǀ dasmá-varcāḥ ǀ
ágne ǀ mitráḥ ǀ ná ǀ bṛhatáḥ ǀ ṛtásya ǀ ási ǀ kṣattā́ ǀ vāmásya ǀ deva ǀ bhū́reḥ ǁ
tvam ǀ bhagaḥ ǀ naḥ ǀ ā ǀ hi ǀ ratnam ǀ iṣe ǀ parijmā-iva ǀ kṣayasi ǀ dasma-varcāḥ ǀ
agne ǀ mitraḥ ǀ na ǀ bṛhataḥ ǀ ṛtasya ǀ asi ǀ kṣattā ǀ vāmasya ǀ deva ǀ bhūreḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.013.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.5.15.02
- Maṇḍala · Anuvāka · Ṛk
- 06.01.096
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.