Ṛk 6.38.5
Saṃhitā
ए॒वा ज॑ज्ञा॒नं सह॑से॒ असा॑मि वावृधा॒नं राध॑से च श्रु॒ताय॑ ।
म॒हामु॒ग्रमव॑से विप्र नू॒नमा वि॑वासेम वृत्र॒तूर्ये॑षु ॥
एवा जज्ञानं सहसे असामि वावृधानं राधसे च श्रुताय |
महाम् उग्रम् अवसे विप्र नूनम् आ विवासेम वृत्रतूर्येषु ||
evā́ jajñānám sáhase ásāmi vāvṛdhānám rā́dhase ca śrutā́ya ǀ
mahā́mugrámávase vipra nūnámā́ vivāsema vṛtratū́ryeṣu ǁ
evā jajñānaṃ sahase asāmi vāvṛdhānaṃ rādhase ca śrutāya |
mahām ugram avase vipra nūnam ā vivāsema vṛtratūryeṣu ||
Padapāṭha
ए॒व । ज॒ज्ञा॒नम् । सह॑से । असा॑मि । व॒वृ॒धा॒नम् । राध॑से । च॒ । श्रु॒ताय॑ ।
म॒हाम् । उ॒ग्रम् । अव॑से । वि॒प्र॒ । नू॒नम् । आ । वि॒वा॒से॒म॒ । वृ॒त्र॒ऽतूर्ये॑षु ॥
एव । जज्ञानम् । सहसे । असामि । ववृधानम् । राधसे । च । श्रुताय ।
महाम् । उग्रम् । अवसे । विप्र । नूनम् । आ । विवासेम । वृत्रऽतूर्येषु ॥
evá ǀ jajñānám ǀ sáhase ǀ ásāmi ǀ vavṛdhānám ǀ rā́dhase ǀ ca ǀ śrutā́ya ǀ
mahā́m ǀ ugrám ǀ ávase ǀ vipra ǀ nūnám ǀ ā́ ǀ vivāsema ǀ vṛtra-tū́ryeṣu ǁ
eva ǀ jajñānam ǀ sahase ǀ asāmi ǀ vavṛdhānam ǀ rādhase ǀ ca ǀ śrutāya ǀ
mahām ǀ ugram ǀ avase ǀ vipra ǀ nūnam ǀ ā ǀ vivāsema ǀ vṛtra-tūryeṣu ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.038.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.7.10.05
- Maṇḍala · Anuvāka · Ṛk
- 06.03.094
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.