Ṛk 6.17.3
Saṃhitā
ए॒वा पा॑हि प्र॒त्नथा॒ मंद॑तु त्वा श्रु॒धि ब्रह्म॑ वावृ॒धस्वो॒त गी॒र्भिः ।
आ॒विः सूर्यं॑ कृणु॒हि पी॑पि॒हीषो॑ ज॒हि शत्रूँ॑र॒भि गा इं॑द्र तृंधि ॥
एवा पाहि प्रत्नथा मन्दतु त्वा श्रुधि ब्रह्म वावृधस्वोत गीर्भिः |
आविः सूर्यं कृणुहि पीपिहीषो जहि शत्रूंर् अभि गा इन्द्र तृन्धि ||
evā́ pāhi pratnáthā mándatu tvā śrudhí bráhma vāvṛdhásvotá gīrbhíḥ ǀ
āvíḥ sū́ryam kṛṇuhí pīpihī́ṣo jahí śátrūm̐rabhí gā́ indra tṛndhi ǁ
evā pāhi pratnathā mandatu tvā śrudhi brahma vāvṛdhasvota gīrbhiḥ |
āviḥ sūryaṃ kṛṇuhi pīpihīṣo jahi śatrūṃr abhi gā indra tṛndhi ||
Padapāṭha
ए॒व । पा॒हि॒ । प्र॒त्नऽथा॑ । मन्द॑तु । त्वा॒ । श्रु॒धि । ब्रह्म॑ । व॒वृ॒धस्व॑ । उ॒त । गीः॒ऽभिः ।
आ॒विः । सूर्य॑म् । कृ॒णु॒हि । पी॒पि॒हि । इषः॑ । ज॒हि । शत्रू॑न् । अ॒भि । गाः । इ॒न्द्र॒ । तृ॒न्धि॒ ॥
एव । पाहि । प्रत्नऽथा । मन्दतु । त्वा । श्रुधि । ब्रह्म । ववृधस्व । उत । गीःऽभिः ।
आविः । सूर्यम् । कृणुहि । पीपिहि । इषः । जहि । शत्रून् । अभि । गाः । इन्द्र । तृन्धि ॥
evá ǀ pāhi ǀ pratná-thā ǀ mándatu ǀ tvā ǀ śrudhí ǀ bráhma ǀ vavṛdhásva ǀ utá ǀ gīḥ-bhíḥ ǀ
āvíḥ ǀ sū́ryam ǀ kṛṇuhí ǀ pīpihí ǀ íṣaḥ ǀ jahí ǀ śátrūn ǀ abhí ǀ gā́ḥ ǀ indra ǀ tṛndhi ǁ
eva ǀ pāhi ǀ pratna-thā ǀ mandatu ǀ tvā ǀ śrudhi ǀ brahma ǀ vavṛdhasva ǀ uta ǀ gīḥ-bhiḥ ǀ
āviḥ ǀ sūryam ǀ kṛṇuhi ǀ pīpihi ǀ iṣaḥ ǀ jahi ǀ śatrūn ǀ abhi ǀ gāḥ ǀ indra ǀ tṛndhi ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.017.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.6.01.03
- Maṇḍala · Anuvāka · Ṛk
- 06.02.051
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh, Dvipadā
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.