Ṛk 6.17.12
Saṃhitā
आ क्षोदो॒ महि॑ वृ॒तं न॒दीनां॒ परि॑ष्ठितमसृज ऊ॒र्मिम॒पां ।
तासा॒मनु॑ प्र॒वत॑ इंद्र॒ पंथां॒ प्रार्द॑यो॒ नीची॑र॒पसः॑ समु॒द्रं ॥
आ क्षोदो महि वृतं नदीनाम् परिष्ठितम् असृज ऊर्मिम् अपाम् |
तासाम् अनु प्रवत इन्द्र पन्थाम् प्रार्दयो नीचीर् अपसः समुद्रम् ||
ā́ kṣódo máhi vṛtám nadī́nām páriṣṭhitamasṛja ūrmímapā́m ǀ
tā́sāmánu praváta indra pánthām prā́rdayo nī́cīrapásaḥ samudrám ǁ
ā kṣodo mahi vṛtaṃ nadīnām pariṣṭhitam asṛja ūrmim apām |
tāsām anu pravata indra panthām prārdayo nīcīr apasaḥ samudram ||
Padapāṭha
आ । क्षोदः॑ । महि॑ । वृ॒तम् । न॒दीना॑म् । परि॑ऽस्थितम् । अ॒सृ॒जः॒ । ऊ॒र्मिम् । अ॒पाम् ।
तासा॑म् । अनु॑ । प्र॒ऽवतः॑ । इ॒न्द्र॒ । पन्था॑म् । प्र । आ॒र्द॒यः॒ । नीचीः॑ । अ॒पसः॑ । स॒मु॒द्रम् ॥
आ । क्षोदः । महि । वृतम् । नदीनाम् । परिऽस्थितम् । असृजः । ऊर्मिम् । अपाम् ।
तासाम् । अनु । प्रऽवतः । इन्द्र । पन्थाम् । प्र । आर्दयः । नीचीः । अपसः । समुद्रम् ॥
ā́ ǀ kṣódaḥ ǀ máhi ǀ vṛtám ǀ nadī́nām ǀ pári-sthitam ǀ asṛjaḥ ǀ ūrmím ǀ apā́m ǀ
tā́sām ǀ ánu ǀ pra-vátaḥ ǀ indra ǀ pánthām ǀ prá ǀ ārdayaḥ ǀ nī́cīḥ ǀ apásaḥ ǀ samudrám ǁ
ā ǀ kṣodaḥ ǀ mahi ǀ vṛtam ǀ nadīnām ǀ pari-sthitam ǀ asṛjaḥ ǀ ūrmim ǀ apām ǀ
tāsām ǀ anu ǀ pra-vataḥ ǀ indra ǀ panthām ǀ pra ǀ ārdayaḥ ǀ nīcīḥ ǀ apasaḥ ǀ samudram ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.017.12
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.6.03.02
- Maṇḍala · Anuvāka · Ṛk
- 06.02.060
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh, Dvipadā
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.