Ṛk 6.25.1
Saṃhitā
या त॑ ऊ॒तिर॑व॒मा या प॑र॒मा या म॑ध्य॒मेंद्र॑ शुष्मि॒न्नस्ति॑ ।
ताभि॑रू॒ षु वृ॑त्र॒हत्ये॑ऽवीर्न ए॒भिश्च॒ वाजै॑र्म॒हान्न॑ उग्र ॥
या त ऊतिर् अवमा या परमा या मध्यमेन्द्र शुष्मिन्न् अस्ति |
ताभिर् ऊ षु वृत्रहत्ये ऽवीर् न एभिश् च वाजैर् महान् न उग्र ||
yā́ ta ūtíravamā́ yā́ paramā́ yā́ madhyaméndra śuṣminnásti ǀ
tā́bhirū ṣú vṛtrahátye’vīrna ebhíśca vā́jairmahā́nna ugra ǁ
yā ta ūtir avamā yā paramā yā madhyamendra śuṣminn asti |
tābhir ū ṣu vṛtrahatye 'vīr na ebhiś ca vājair mahān na ugra ||
Padapāṭha
या । ते॒ । ऊ॒तिः । अ॒व॒मा । या । प॒र॒मा । या । म॒ध्य॒मा । इ॒न्द्र॒ । शु॒ष्मि॒न् । अस्ति॑ ।
ताभिः॑ । ऊं॒ इति॑ । सु । वृ॒त्र॒ऽहत्ये॑ । अ॒वीः॒ । नः॒ । ए॒भिः । च॒ । वाजैः॑ । म॒हान् । नः॒ । उ॒ग्र॒ ॥
या । ते । ऊतिः । अवमा । या । परमा । या । मध्यमा । इन्द्र । शुष्मिन् । अस्ति ।
ताभिः । ऊं इति । सु । वृत्रऽहत्ये । अवीः । नः । एभिः । च । वाजैः । महान् । नः । उग्र ॥
yā́ ǀ te ǀ ūtíḥ ǀ avamā́ ǀ yā́ ǀ paramā́ ǀ yā́ ǀ madhyamā́ ǀ indra ǀ śuṣmin ǀ ásti ǀ
tā́bhiḥ ǀ ūṃ íti ǀ sú ǀ vṛtra-hátye ǀ avīḥ ǀ naḥ ǀ ebhíḥ ǀ ca ǀ vā́jaiḥ ǀ mahā́n ǀ naḥ ǀ ugra ǁ
yā ǀ te ǀ ūtiḥ ǀ avamā ǀ yā ǀ paramā ǀ yā ǀ madhyamā ǀ indra ǀ śuṣmin ǀ asti ǀ
tābhiḥ ǀ ūṃ iti ǀ su ǀ vṛtra-hatye ǀ avīḥ ǀ naḥ ǀ ebhiḥ ǀ ca ǀ vājaiḥ ǀ mahān ǀ naḥ ǀ ugra ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.025.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.6.19.01
- Maṇḍala · Anuvāka · Ṛk
- 06.03.011
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.