Ṛk 6.25.5
Saṃhitā
न॒हि त्वा॒ शूरो॒ न तु॒रो न धृ॒ष्णुर्न त्वा॑ यो॒धो मन्य॑मानो यु॒योध॑ ।
इंद्र॒ नकि॑ष्ट्वा॒ प्रत्य॑स्त्येषां॒ विश्वा॑ जा॒तान्य॒भ्य॑सि॒ तानि॑ ॥
नहि त्वा शूरो न तुरो न धृष्णुर् न त्वा योधो मन्यमानो युयोध |
इन्द्र नकिष् ट्वा प्रत्य् अस्त्य् एषां विश्वा जातान्य् अभ्य् असि तानि ||
nahí tvā śū́ro ná turó ná dhṛṣṇúrná tvā yodhó mányamāno yuyódha ǀ
índra nákiṣṭvā prátyastyeṣām víśvā jātā́nyabhyási tā́ni ǁ
nahi tvā śūro na turo na dhṛṣṇur na tvā yodho manyamāno yuyodha |
indra nakiṣ ṭvā praty asty eṣāṃ viśvā jātāny abhy asi tāni ||
Padapāṭha
न॒हि । त्वा॒ । शूरः॑ । न । तु॒रः । न । धृ॒ष्णुः । न । त्वा॒ । यो॒धः । मन्य॑मानः । यु॒योध॑ ।
इन्द्र॑ । नकिः॑ । त्वा॒ । प्रति॑ । अ॒स्ति॒ । ए॒षा॒म् । विश्वा॑ । जा॒तानि॑ । अ॒भि । अ॒सि॒ । तानि॑ ॥
नहि । त्वा । शूरः । न । तुरः । न । धृष्णुः । न । त्वा । योधः । मन्यमानः । युयोध ।
इन्द्र । नकिः । त्वा । प्रति । अस्ति । एषाम् । विश्वा । जातानि । अभि । असि । तानि ॥
nahí ǀ tvā ǀ śū́raḥ ǀ ná ǀ turáḥ ǀ ná ǀ dhṛṣṇúḥ ǀ ná ǀ tvā ǀ yodháḥ ǀ mányamānaḥ ǀ yuyódha ǀ
índra ǀ nákiḥ ǀ tvā ǀ práti ǀ asti ǀ eṣām ǀ víśvā ǀ jātā́ni ǀ abhí ǀ asi ǀ tā́ni ǁ
nahi ǀ tvā ǀ śūraḥ ǀ na ǀ turaḥ ǀ na ǀ dhṛṣṇuḥ ǀ na ǀ tvā ǀ yodhaḥ ǀ manyamānaḥ ǀ yuyodha ǀ
indra ǀ nakiḥ ǀ tvā ǀ prati ǀ asti ǀ eṣām ǀ viśvā ǀ jātāni ǀ abhi ǀ asi ǀ tāni ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.025.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.6.19.05
- Maṇḍala · Anuvāka · Ṛk
- 06.03.015
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.