Ṛk 6.49.15
Saṃhitā
नु नो॑ र॒यिं र॒थ्यं॑ चर्षणि॒प्रां पु॑रु॒वीरं॑ म॒ह ऋ॒तस्य॑ गो॒पां ।
क्षयं॑ दाता॒जरं॒ येन॒ जना॒न्त्स्पृधो॒ अदे॑वीर॒भि च॒ क्रमा॑म॒ विश॒ आदे॑वीर॒भ्य१॒॑श्नवा॑म ॥
नु नो रयिं रथ्यं चर्षणिप्राम् पुरुवीरम् मह ऋतस्य गोपाम् |
क्षयं दाताजरं येन जनान् स्पृधो अदेवीर् अभि च क्रमाम विश आदेवीर् अभ्य् अश्नवाम ||
nú no rayím rathyám carṣaṇiprā́m puruvī́ram mahá ṛtásya gopā́m ǀ
kṣáyam dātājáram yéna jánāntspṛ́dho ádevīrabhí ca krámāma víśa ā́devīrabhyáśnávāma ǁ
nu no rayiṃ rathyaṃ carṣaṇiprām puruvīram maha ṛtasya gopām |
kṣayaṃ dātājaraṃ yena janān spṛdho adevīr abhi ca kramāma viśa ādevīr abhy aśnavāma ||
Padapāṭha
नु । नः॒ । र॒यिम् । र॒थ्य॑म् । च॒र्ष॒णि॒ऽप्राम् । पु॒रु॒ऽवीर॑म् । म॒हः । ऋ॒तस्य॑ । गो॒पाम् ।
क्षय॑म् । दा॒त॒ । अ॒जर॑म् । येन॑ । जना॑न् । स्पृधः॑ । अदे॑वीः । अ॒भि । च॒ । क्रमा॑म । विशः॑ । आऽदे॑वीः । अ॒भि । अ॒श्नवा॑म ॥
नु । नः । रयिम् । रथ्यम् । चर्षणिऽप्राम् । पुरुऽवीरम् । महः । ऋतस्य । गोपाम् ।
क्षयम् । दात । अजरम् । येन । जनान् । स्पृधः । अदेवीः । अभि । च । क्रमाम । विशः । आऽदेवीः । अभि । अश्नवाम ॥
nú ǀ naḥ ǀ rayím ǀ rathyám ǀ carṣaṇi-prā́m ǀ puru-vī́ram ǀ maháḥ ǀ ṛtásya ǀ gopā́m ǀ
kṣáyam ǀ dāta ǀ ajáram ǀ yéna ǀ jánān ǀ spṛ́dhaḥ ǀ ádevīḥ ǀ abhí ǀ ca ǀ krámāma ǀ víśaḥ ǀ ā́-devīḥ ǀ abhí ǀ aśnávāma ǁ
nu ǀ naḥ ǀ rayim ǀ rathyam ǀ carṣaṇi-prām ǀ puru-vīram ǀ mahaḥ ǀ ṛtasya ǀ gopām ǀ
kṣayam ǀ dāta ǀ ajaram ǀ yena ǀ janān ǀ spṛdhaḥ ǀ adevīḥ ǀ abhi ǀ ca ǀ kramāma ǀ viśaḥ ǀ ā-devīḥ ǀ abhi ǀ aśnavāma ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.049.15
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.8.07.05
- Maṇḍala · Anuvāka · Ṛk
- 06.04.139
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Ṛjiśvan Bhāradvāja
- Chandas छन्दस्
- Triṣṭubh, Śakvarī
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.