Ṛk 6.49.14
Saṃhitā
तन्नोऽहि॑र्बु॒ध्न्यो॑ अ॒द्भिर॒र्कैस्तत्पर्व॑त॒स्तत्स॑वि॒ता चनो॑ धात् ।
तदोष॑धीभिर॒भि रा॑ति॒षाचो॒ भगः॒ पुरं॑धिर्जिन्वतु॒ प्र रा॒ये ॥
तन् नो ऽहिर् बुध्न्यो अद्भिर् अर्कैस् तत् पर्वतस् तत् सविता चनो धात् |
तद् ओषधीभिर् अभि रातिषाचो भगः पुरन्धिर् जिन्वतु प्र राये ||
tánnó’hirbudhnyó adbhírarkáistátpárvatastátsavitā́ cáno dhāt ǀ
tádóṣadhībhirabhí rātiṣā́co bhágaḥ púraṃdhirjinvatu prá rāyé ǁ
tan no 'hir budhnyo adbhir arkais tat parvatas tat savitā cano dhāt |
tad oṣadhībhir abhi rātiṣāco bhagaḥ purandhir jinvatu pra rāye ||
Padapāṭha
तत् । नः॒ । अहिः॑ । बु॒ध्न्यः॑ । अ॒त्ऽभिः । अ॒र्कैः । तत् । पर्व॑तः । तत् । स॒वि॒ता । चनः॑ । धा॒त् ।
तत् । ओष॑धीभिः । अ॒भि । रा॒ति॒ऽसाचः॑ । भगः॑ । पुर॑म्ऽधिः । जि॒न्व॒तु॒ । प्र । रा॒ये ॥
तत् । नः । अहिः । बुध्न्यः । अत्ऽभिः । अर्कैः । तत् । पर्वतः । तत् । सविता । चनः । धात् ।
तत् । ओषधीभिः । अभि । रातिऽसाचः । भगः । पुरम्ऽधिः । जिन्वतु । प्र । राये ॥
tát ǀ naḥ ǀ áhiḥ ǀ budhnyáḥ ǀ at-bhíḥ ǀ arkáiḥ ǀ tát ǀ párvataḥ ǀ tát ǀ savitā́ ǀ cánaḥ ǀ dhāt ǀ
tát ǀ óṣadhībhiḥ ǀ abhí ǀ rāti-sā́caḥ ǀ bhágaḥ ǀ púram-dhiḥ ǀ jinvatu ǀ prá ǀ rāyé ǁ
tat ǀ naḥ ǀ ahiḥ ǀ budhnyaḥ ǀ at-bhiḥ ǀ arkaiḥ ǀ tat ǀ parvataḥ ǀ tat ǀ savitā ǀ canaḥ ǀ dhāt ǀ
tat ǀ oṣadhībhiḥ ǀ abhi ǀ rāti-sācaḥ ǀ bhagaḥ ǀ puram-dhiḥ ǀ jinvatu ǀ pra ǀ rāye ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.049.14
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.8.07.04
- Maṇḍala · Anuvāka · Ṛk
- 06.04.138
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Ṛjiśvan Bhāradvāja
- Chandas छन्दस्
- Triṣṭubh, Śakvarī
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.