Ṛk 6.10.3
Saṃhitā
पी॒पाय॒ स श्रव॑सा॒ मर्त्ये॑षु॒ यो अ॒ग्नये॑ द॒दाश॒ विप्र॑ उ॒क्थैः ।
चि॒त्राभि॒स्तमू॒तिभि॑श्चि॒त्रशो॑चिर्व्र॒जस्य॑ सा॒ता गोम॑तो दधाति ॥
पीपाय स श्रवसा मर्त्येषु यो अग्नये ददाश विप्र उक्थैः |
चित्राभिस् तम् ऊतिभिश् चित्रशोचिर् व्रजस्य साता गोमतो दधाति ||
pīpā́ya sá śrávasā mártyeṣu yó agnáye dadā́śa vípra uktháiḥ ǀ
citrā́bhistámūtíbhiścitráśocirvrajásya sātā́ gómato dadhāti ǁ
pīpāya sa śravasā martyeṣu yo agnaye dadāśa vipra ukthaiḥ |
citrābhis tam ūtibhiś citraśocir vrajasya sātā gomato dadhāti ||
Padapāṭha
पी॒पाय॑ । सः । श्रव॑सा । मर्त्ये॑षु । यः । अ॒ग्नये॑ । द॒दाश॑ । विप्रः॑ । उ॒क्थैः ।
चि॒त्राभिः॑ । तम् । ऊ॒तिऽभिः॑ । चि॒त्रऽशो॑चिः । व्र॒जस्य॑ । सा॒ता । गोऽम॑तः । द॒धा॒ति॒ ॥
पीपाय । सः । श्रवसा । मर्त्येषु । यः । अग्नये । ददाश । विप्रः । उक्थैः ।
चित्राभिः । तम् । ऊतिऽभिः । चित्रऽशोचिः । व्रजस्य । साता । गोऽमतः । दधाति ॥
pīpā́ya ǀ sáḥ ǀ śrávasā ǀ mártyeṣu ǀ yáḥ ǀ agnáye ǀ dadā́śa ǀ vípraḥ ǀ uktháiḥ ǀ
citrā́bhiḥ ǀ tám ǀ ūtí-bhiḥ ǀ citrá-śociḥ ǀ vrajásya ǀ sātā́ ǀ gó-mataḥ ǀ dadhāti ǁ
pīpāya ǀ saḥ ǀ śravasā ǀ martyeṣu ǀ yaḥ ǀ agnaye ǀ dadāśa ǀ vipraḥ ǀ ukthaiḥ ǀ
citrābhiḥ ǀ tam ǀ ūti-bhiḥ ǀ citra-śociḥ ǀ vrajasya ǀ sātā ǀ go-mataḥ ǀ dadhāti ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.010.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.5.12.03
- Maṇḍala · Anuvāka · Ṛk
- 06.01.078
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh, Dvipadā Virāj
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.