Ṛk 6.10.5
Saṃhitā
नू न॑श्चि॒त्रं पु॑रु॒वाजा॑भिरू॒ती अग्ने॑ र॒यिं म॒घव॑द्भ्यश्च धेहि ।
ये राध॑सा॒ श्रव॑सा॒ चात्य॒न्यान्त्सु॒वीर्ये॑भिश्चा॒भि संति॒ जना॑न् ॥
नू नश् चित्रम् पुरुवाजाभिर् ऊती अग्ने रयिम् मघवद्भ्यश् च धेहि |
ये राधसा श्रवसा चात्य् अन्यान् सुवीर्येभिश् चाभि सन्ति जनान् ||
nū́ naścitrám puruvā́jābhirūtī́ ágne rayím maghávadbhyaśca dhehi ǀ
yé rā́dhasā śrávasā cā́tyanyā́ntsuvī́ryebhiścābhí sánti jánān ǁ
nū naś citram puruvājābhir ūtī agne rayim maghavadbhyaś ca dhehi |
ye rādhasā śravasā cāty anyān suvīryebhiś cābhi santi janān ||
Padapāṭha
नु । नः॒ । चि॒त्रम् । पु॒रु॒ऽवाजा॑भिः । ऊ॒ती । अग्ने॑ । र॒यिम् । म॒घव॑त्ऽभ्यः । च॒ । धे॒हि॒ ।
ये । राध॑सा । श्रव॑सा । च॒ । अति॑ । अ॒न्यान् । सु॒ऽवीर्ये॑भिः । च॒ । अ॒भि । सन्ति॑ । जना॑न् ॥
नु । नः । चित्रम् । पुरुऽवाजाभिः । ऊती । अग्ने । रयिम् । मघवत्ऽभ्यः । च । धेहि ।
ये । राधसा । श्रवसा । च । अति । अन्यान् । सुऽवीर्येभिः । च । अभि । सन्ति । जनान् ॥
nú ǀ naḥ ǀ citrám ǀ puru-vā́jābhiḥ ǀ ūtī́ ǀ ágne ǀ rayím ǀ maghávat-bhyaḥ ǀ ca ǀ dhehi ǀ
yé ǀ rā́dhasā ǀ śrávasā ǀ ca ǀ áti ǀ anyā́n ǀ su-vī́ryebhiḥ ǀ ca ǀ abhí ǀ sánti ǀ jánān ǁ
nu ǀ naḥ ǀ citram ǀ puru-vājābhiḥ ǀ ūtī ǀ agne ǀ rayim ǀ maghavat-bhyaḥ ǀ ca ǀ dhehi ǀ
ye ǀ rādhasā ǀ śravasā ǀ ca ǀ ati ǀ anyān ǀ su-vīryebhiḥ ǀ ca ǀ abhi ǀ santi ǀ janān ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.010.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.5.12.05
- Maṇḍala · Anuvāka · Ṛk
- 06.01.080
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh, Dvipadā Virāj
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.