Ṛgveda · Maṇḍala 6 · Sūkta 50

Ṛk 6.50.6

Viśvedevās · Ṛjiśvan Bhāradvāja

The whole sūkta Link

Saṃhitā

अ॒भि त्यं वी॒रं गिर्व॑णसम॒र्चेंद्रं॒ ब्रह्म॑णा जरित॒र्नवे॑न ।
श्रव॒दिद्धव॒मुप॑ च॒ स्तवा॑नो॒ रास॒द्वाजाँ॒ उप॑ म॒हो गृ॑णा॒नः ॥

अभि त्यं वीरं गिर्वणसम् अर्चेन्द्रम् ब्रह्मणा जरितर् नवेन |
श्रवद् इद् धवम् उप च स्तवानो रासद् वाजां उप महो गृणानः ||

abhí tyám vīrám gírvaṇasamarcéndram bráhmaṇā jaritarnávena ǀ
śrávadíddhávamúpa ca stávāno rā́sadvā́jām̐ úpa mahó gṛṇānáḥ ǁ

abhi tyaṃ vīraṃ girvaṇasam arcendram brahmaṇā jaritar navena |
śravad id dhavam upa ca stavāno rāsad vājāṃ upa maho gṛṇānaḥ ||

Padapāṭha

अ॒भि । त्यम् । वी॒रम् । गिर्व॑णसम् । अ॒र्च॒ । इन्द्र॑म् । ब्रह्म॑णा । ज॒रि॒तः॒ । नवे॑न ।
श्रव॑त् । इत् । हव॑म् । उप॑ । च॒ । स्तवा॑नः । रास॑त् । वाजा॑न् । उप॑ । म॒हः । गृ॒णा॒नः ॥

अभि । त्यम् । वीरम् । गिर्वणसम् । अर्च । इन्द्रम् । ब्रह्मणा । जरितः । नवेन ।
श्रवत् । इत् । हवम् । उप । च । स्तवानः । रासत् । वाजान् । उप । महः । गृणानः ॥

abhí ǀ tyám ǀ vīrám ǀ gírvaṇasam ǀ arca ǀ índram ǀ bráhmaṇā ǀ jaritaḥ ǀ návena ǀ
śrávat ǀ ít ǀ hávam ǀ úpa ǀ ca ǀ stávānaḥ ǀ rā́sat ǀ vā́jān ǀ úpa ǀ maháḥ ǀ gṛṇānáḥ ǁ

abhi ǀ tyam ǀ vīram ǀ girvaṇasam ǀ arca ǀ indram ǀ brahmaṇā ǀ jaritaḥ ǀ navena ǀ
śravat ǀ it ǀ havam ǀ upa ǀ ca ǀ stavānaḥ ǀ rāsat ǀ vājān ǀ upa ǀ mahaḥ ǀ gṛṇānaḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
06.050.06
Aṣṭaka · Adhyāya · Varga · Ṛk
4.8.09.01
Maṇḍala · Anuvāka · Ṛk
06.05.006
Devatā देवता
Viśvedevās
Ṛṣi ऋषि
Ṛjiśvan Bhāradvāja
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 6.50.6

Interpretations

Ralph T. H. Griffith

With a new hymn extol, O thou who singest, the Lover of the Song, the Hero Indra. May he, exalted, hear our invocation, and grant us mighty wealth and strength when lauded.