Ṛk 6.50.2
Saṃhitā
सु॒ज्योति॑षः सूर्य॒ दक्ष॑पितॄननागा॒स्त्वे सु॑महो वीहि दे॒वान् ।
द्वि॒जन्मा॑नो॒ य ऋ॑त॒सापः॑ स॒त्याः स्व॑र्वंतो यज॒ता अ॑ग्निजि॒ह्वाः ॥
सुज्योतिषः सूर्य दक्षपितॄन् अनागास्त्वे सुमहो वीहि देवान् |
द्विजन्मानो य ऋतसापः सत्याः स्वर्वन्तो यजता अग्निजिह्वाः ||
sujyótiṣaḥ sūrya dákṣapitṝnanāgāstvé sumaho vīhi devā́n ǀ
dvijánmāno yá ṛtasā́paḥ satyā́ḥ svárvanto yajatā́ agnijihvā́ḥ ǁ
sujyotiṣaḥ sūrya dakṣapitṝn anāgāstve sumaho vīhi devān |
dvijanmāno ya ṛtasāpaḥ satyāḥ svarvanto yajatā agnijihvāḥ ||
Padapāṭha
सु॒ऽज्योति॑षः । सू॒र्य॒ । दक्ष॑ऽपितॄन् । अ॒ना॒गाः॒ऽत्वे । सु॒ऽम॒हः॒ । वी॒हि॒ । दे॒वान् ।
द्वि॒ऽजन्मा॑नः । ये । ऋ॒त॒ऽसापः॑ । स॒त्याः । स्वः॑ऽवन्तः । य॒ज॒ताः । अ॒ग्नि॒ऽजि॒ह्वाः ॥
सुऽज्योतिषः । सूर्य । दक्षऽपितॄन् । अनागाःऽत्वे । सुऽमहः । वीहि । देवान् ।
द्विऽजन्मानः । ये । ऋतऽसापः । सत्याः । स्वःऽवन्तः । यजताः । अग्निऽजिह्वाः ॥
su-jyótiṣaḥ ǀ sūrya ǀ dákṣa-pitṝn ǀ anāgāḥ-tvé ǀ su-mahaḥ ǀ vīhi ǀ devā́n ǀ
dvi-jánmānaḥ ǀ yé ǀ ṛta-sā́paḥ ǀ satyā́ḥ ǀ sváḥ-vantaḥ ǀ yajatā́ḥ ǀ agni-jihvā́ḥ ǁ
su-jyotiṣaḥ ǀ sūrya ǀ dakṣa-pitṝn ǀ anāgāḥ-tve ǀ su-mahaḥ ǀ vīhi ǀ devān ǀ
dvi-janmānaḥ ǀ ye ǀ ṛta-sāpaḥ ǀ satyāḥ ǀ svaḥ-vantaḥ ǀ yajatāḥ ǀ agni-jihvāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.050.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.8.08.02
- Maṇḍala · Anuvāka · Ṛk
- 06.05.002
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Ṛjiśvan Bhāradvāja
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.