Ṛk 6.71.5
Saṃhitā
उदू॑ अयाँ उपव॒क्तेव॑ बा॒हू हि॑र॒ण्यया॑ सवि॒ता सु॒प्रती॑का ।
दि॒वो रोहां॑स्यरुहत्पृथि॒व्या अरी॑रमत्प॒तय॒त्कच्चि॒दभ्वं॑ ॥
उद् ऊ अयां उपवक्तेव बाहू हिरण्यया सविता सुप्रतीका |
दिवो रोहांस्य् अरुहत् पृथिव्या अरीरमत् पतयत् कच् चिद् अभ्वम् ||
údū ayām̐ upavaktéva bāhū́ hiraṇyáyā savitā́ suprátīkā ǀ
divó róhāṃsyaruhatpṛthivyā́ árīramatpatáyatkáccidábhvam ǁ
ud ū ayāṃ upavakteva bāhū hiraṇyayā savitā supratīkā |
divo rohāṃsy aruhat pṛthivyā arīramat patayat kac cid abhvam ||
Padapāṭha
उत् । ऊं॒ इति॑ । अ॒या॒न् । उ॒प॒व॒क्ताऽइ॑व । बा॒हू इति॑ । हि॒र॒ण्यया॑ । स॒वि॒ता । सु॒ऽप्रती॑का ।
दि॒वः । रोहां॑सि । अ॒रु॒ह॒त् । पृ॒थि॒व्याः । अरी॑रमत् । प॒तय॑त् । कत् । चि॒त् । अभ्व॑म् ॥
उत् । ऊं इति । अयान् । उपवक्ताऽइव । बाहू इति । हिरण्यया । सविता । सुऽप्रतीका ।
दिवः । रोहांसि । अरुहत् । पृथिव्याः । अरीरमत् । पतयत् । कत् । चित् । अभ्वम् ॥
út ǀ ūṃ íti ǀ ayān ǀ upavaktā́-iva ǀ bāhū́ íti ǀ hiraṇyáyā ǀ savitā́ ǀ su-prátīkā ǀ
diváḥ ǀ róhāṃsi ǀ aruhat ǀ pṛthivyā́ḥ ǀ árīramat ǀ patáyat ǀ kát ǀ cit ǀ ábhvam ǁ
ut ǀ ūṃ iti ǀ ayān ǀ upavaktā-iva ǀ bāhū iti ǀ hiraṇyayā ǀ savitā ǀ su-pratīkā ǀ
divaḥ ǀ rohāṃsi ǀ aruhat ǀ pṛthivyāḥ ǀ arīramat ǀ patayat ǀ kat ǀ cit ǀ abhvam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.071.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.1.15.05
- Maṇḍala · Anuvāka · Ṛk
- 06.06.086
- Devatā देवता
- Savitṛ
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.