Ṛk 6.3.1
Saṃhitā
अग्ने॒ स क्षे॑षदृत॒पा ऋ॑ते॒जा उ॒रु ज्योति॑र्नशते देव॒युष्टे॑ ।
यं त्वं मि॒त्रेण॒ वरु॑णः स॒जोषा॒ देव॒ पासि॒ त्यज॑सा॒ मर्त॒मंहः॑ ॥
अग्ने स क्षेषद् ऋतपा ऋतेजा उरु ज्योतिर् नशते देवयुष् टे |
यं त्वम् मित्रेण वरुणः सजोषा देव पासि त्यजसा मर्तम् अंहः ||
ágne sá kṣeṣadṛtapā́ ṛtejā́ urú jyótirnaśate devayúṣṭe ǀ
yám tvám mitréṇa váruṇaḥ sajóṣā déva pā́si tyájasā mártamáṃhaḥ ǁ
agne sa kṣeṣad ṛtapā ṛtejā uru jyotir naśate devayuṣ ṭe |
yaṃ tvam mitreṇa varuṇaḥ sajoṣā deva pāsi tyajasā martam aṃhaḥ ||
Padapāṭha
अग्ने॑ । सः । क्षे॒ष॒त् । ऋ॒त॒ऽपाः । ऋ॒ते॒ऽजाः । उ॒रु । ज्योतिः॑ । न॒श॒ते॒ । दे॒व॒ऽयुः । ते॒ ।
यम् । त्वम् । मि॒त्रेण॑ । वरु॑णः । स॒ऽजोषाः॑ । देव॑ । पासि॑ । त्यज॑सा । मर्त॑म् । अंहः॑ ॥
अग्ने । सः । क्षेषत् । ऋतऽपाः । ऋतेऽजाः । उरु । ज्योतिः । नशते । देवऽयुः । ते ।
यम् । त्वम् । मित्रेण । वरुणः । सऽजोषाः । देव । पासि । त्यजसा । मर्तम् । अंहः ॥
ágne ǀ sáḥ ǀ kṣeṣat ǀ ṛta-pā́ḥ ǀ ṛte-jā́ḥ ǀ urú ǀ jyótiḥ ǀ naśate ǀ deva-yúḥ ǀ te ǀ
yám ǀ tvám ǀ mitréṇa ǀ váruṇaḥ ǀ sa-jóṣāḥ ǀ déva ǀ pā́si ǀ tyájasā ǀ mártam ǀ áṃhaḥ ǁ
agne ǀ saḥ ǀ kṣeṣat ǀ ṛta-pāḥ ǀ ṛte-jāḥ ǀ uru ǀ jyotiḥ ǀ naśate ǀ deva-yuḥ ǀ te ǀ
yam ǀ tvam ǀ mitreṇa ǀ varuṇaḥ ǀ sa-joṣāḥ ǀ deva ǀ pāsi ǀ tyajasā ǀ martam ǀ aṃhaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.003.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.5.03.01
- Maṇḍala · Anuvāka · Ṛk
- 06.01.025
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.