Ṛk 6.3.2
Saṃhitā
ई॒जे य॒ज्ञेभिः॑ शश॒मे शमी॑भिर्ऋ॒धद्वा॑राया॒ग्नये॑ ददाश ।
ए॒वा च॒न तं य॒शसा॒मजु॑ष्टि॒र्नांहो॒ मर्तं॑ नशते॒ न प्रदृ॑प्तिः ॥
ईजे यज्ञेभिः शशमे शमीभिर् ऋधद्वारायाग्नये ददाश |
एवा चन तं यशसाम् अजुष्टिर् नांहो मर्तं नशते न प्रदृप्तिः ||
ījé yajñébhiḥ śaśamé śámībhirṛdhádvārāyāgnáye dadāśa ǀ
evā́ caná tám yaśásāmájuṣṭirnā́ṃho mártam naśate ná prádṛptiḥ ǁ
īje yajñebhiḥ śaśame śamībhir ṛdhadvārāyāgnaye dadāśa |
evā cana taṃ yaśasām ajuṣṭir nāṃho martaṃ naśate na pradṛptiḥ ||
Padapāṭha
ई॒जे । य॒ज्ञेभिः॑ । श॒श॒मे । शमी॑भिः । ऋ॒धत्ऽवा॑राय । अ॒ग्नये॑ । द॒दा॒श॒ ।
ए॒व । च॒न । तम् । य॒शसा॑म् । अजु॑ष्टिः । न । अंहः॑ । मर्त॑म् । न॒श॒ते॒ । न । प्रऽदृ॑प्तिः ॥
ईजे । यज्ञेभिः । शशमे । शमीभिः । ऋधत्ऽवाराय । अग्नये । ददाश ।
एव । चन । तम् । यशसाम् । अजुष्टिः । न । अंहः । मर्तम् । नशते । न । प्रऽदृप्तिः ॥
ījé ǀ yajñébhiḥ ǀ śaśamé ǀ śámībhiḥ ǀ ṛdhát-vārāya ǀ agnáye ǀ dadāśa ǀ
evá ǀ caná ǀ tám ǀ yaśásām ǀ ájuṣṭiḥ ǀ ná ǀ áṃhaḥ ǀ mártam ǀ naśate ǀ ná ǀ prá-dṛptiḥ ǁ
īje ǀ yajñebhiḥ ǀ śaśame ǀ śamībhiḥ ǀ ṛdhat-vārāya ǀ agnaye ǀ dadāśa ǀ
eva ǀ cana ǀ tam ǀ yaśasām ǀ ajuṣṭiḥ ǀ na ǀ aṃhaḥ ǀ martam ǀ naśate ǀ na ǀ pra-dṛptiḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.003.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.5.03.02
- Maṇḍala · Anuvāka · Ṛk
- 06.01.026
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.