Ṛk 6.3.4
Saṃhitā
ति॒ग्मं चि॒देम॒ महि॒ वर्पो॑ अस्य॒ भस॒दश्वो॒ न य॑मसा॒न आ॒सा ।
वि॒जेह॑मानः पर॒शुर्न जि॒ह्वां द्र॒विर्न द्रा॑वयति॒ दारु॒ धक्ष॑त् ॥
तिग्मं चिद् एम महि वर्पो अस्य भसद् अश्वो न यमसान आसा |
विजेहमानः परशुर् न जिह्वां द्रविर् न द्रावयति दारु धक्षत् ||
tigmám cidéma máhi várpo asya bhásadáśvo ná yamasāná āsā́ ǀ
vijéhamānaḥ paraśúrná jihvā́m dravírná drāvayati dā́ru dhákṣat ǁ
tigmaṃ cid ema mahi varpo asya bhasad aśvo na yamasāna āsā |
vijehamānaḥ paraśur na jihvāṃ dravir na drāvayati dāru dhakṣat ||
Padapāṭha
ति॒ग्मम् । चि॒त् । एम॑ । महि॑ । वर्पः॑ । अ॒स्य॒ । भस॑त् । अश्वः॑ । न । य॒म॒सा॒नः । आ॒सा ।
वि॒ऽजेह॑मानः । प॒र॒शुः । न । जि॒ह्वाम् । द्र॒विः । न । द्र॒व॒य॒ति॒ । दारु॑ । धक्ष॑त् ॥
तिग्मम् । चित् । एम । महि । वर्पः । अस्य । भसत् । अश्वः । न । यमसानः । आसा ।
विऽजेहमानः । परशुः । न । जिह्वाम् । द्रविः । न । द्रवयति । दारु । धक्षत् ॥
tigmám ǀ cit ǀ éma ǀ máhi ǀ várpaḥ ǀ asya ǀ bhásat ǀ áśvaḥ ǀ ná ǀ yamasānáḥ ǀ āsā́ ǀ
vi-jéhamānaḥ ǀ paraśúḥ ǀ ná ǀ jihvā́m ǀ dravíḥ ǀ ná ǀ dravayati ǀ dā́ru ǀ dhákṣat ǁ
tigmam ǀ cit ǀ ema ǀ mahi ǀ varpaḥ ǀ asya ǀ bhasat ǀ aśvaḥ ǀ na ǀ yamasānaḥ ǀ āsā ǀ
vi-jehamānaḥ ǀ paraśuḥ ǀ na ǀ jihvām ǀ draviḥ ǀ na ǀ dravayati ǀ dāru ǀ dhakṣat ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.003.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.5.03.04
- Maṇḍala · Anuvāka · Ṛk
- 06.01.028
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.