Ṛk 6.3.3
Saṃhitā
सूरो॒ न यस्य॑ दृश॒तिर॑रे॒पा भी॒मा यदेति॑ शुच॒तस्त॒ आ धीः ।
हेष॑स्वतः शु॒रुधो॒ नायम॒क्तोः कुत्रा॑ चिद्र॒ण्वो व॑स॒तिर्व॑ने॒जाः ॥
सूरो न यस्य दृशतिर् अरेपा भीमा यद् एति शुचतस् त आ धीः |
हेषस्वतः शुरुधो नायम् अक्तोः कुत्रा चिद् रण्वो वसतिर् वनेजाः ||
sū́ro ná yásya dṛśatírarepā́ bhīmā́ yádéti śucatásta ā́ dhī́ḥ ǀ
héṣasvataḥ śurúdho nā́yámaktóḥ kútrā cidraṇvó vasatírvanejā́ḥ ǁ
sūro na yasya dṛśatir arepā bhīmā yad eti śucatas ta ā dhīḥ |
heṣasvataḥ śurudho nāyam aktoḥ kutrā cid raṇvo vasatir vanejāḥ ||
Padapāṭha
सूरः॑ । न । यस्य॑ । दृ॒श॒तिः । अ॒रे॒पाः । भी॒मा । यत् । एति॑ । शु॒च॒तः । ते॒ । आ । धीः ।
हेष॑स्वतः । शु॒रुधः॑ । न । अ॒यम् । अ॒क्तोः । कुत्र॑ । चि॒त् । र॒ण्वः । व॒स॒तिः । व॒ने॒ऽजाः ॥
सूरः । न । यस्य । दृशतिः । अरेपाः । भीमा । यत् । एति । शुचतः । ते । आ । धीः ।
हेषस्वतः । शुरुधः । न । अयम् । अक्तोः । कुत्र । चित् । रण्वः । वसतिः । वनेऽजाः ॥
sū́raḥ ǀ ná ǀ yásya ǀ dṛśatíḥ ǀ arepā́ḥ ǀ bhīmā́ ǀ yát ǀ éti ǀ śucatáḥ ǀ te ǀ ā́ ǀ dhī́ḥ ǀ
héṣasvataḥ ǀ śurúdhaḥ ǀ ná ǀ ayám ǀ aktóḥ ǀ kútra ǀ cit ǀ raṇváḥ ǀ vasatíḥ ǀ vane-jā́ḥ ǁ
sūraḥ ǀ na ǀ yasya ǀ dṛśatiḥ ǀ arepāḥ ǀ bhīmā ǀ yat ǀ eti ǀ śucataḥ ǀ te ǀ ā ǀ dhīḥ ǀ
heṣasvataḥ ǀ śurudhaḥ ǀ na ǀ ayam ǀ aktoḥ ǀ kutra ǀ cit ǀ raṇvaḥ ǀ vasatiḥ ǀ vane-jāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.003.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.5.03.03
- Maṇḍala · Anuvāka · Ṛk
- 06.01.027
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.