Ṛk 6.3.5
Saṃhitā
स इदस्ते॑व॒ प्रति॑ धादसि॒ष्यंछिशी॑त॒ तेजोऽय॑सो॒ न धारां॑ ।
चि॒त्रध्र॑जतिरर॒तिर्यो अ॒क्तोर्वेर्न द्रु॒षद्वा॑ रघु॒पत्म॑जंहाः ॥
स इद् अस्तेव प्रति धाद् असिष्यञ् छिशीत तेजो ऽयसो न धाराम् |
चित्रध्रजतिर् अरतिर् यो अक्तोर् वेर् न द्रुषद्वा रघुपत्मजंहाः ||
sá ídásteva práti dhādasiṣyáñchíśīta téjó’yaso ná dhā́rām ǀ
citrádhrajatiraratíryó aktórvérná druṣádvā raghupátmajaṃhāḥ ǁ
sa id asteva prati dhād asiṣyañ chiśīta tejo 'yaso na dhārām |
citradhrajatir aratir yo aktor ver na druṣadvā raghupatmajaṃhāḥ ||
Padapāṭha
सः । इत् । अस्ता॑ऽइव । प्रति॑ । धा॒त् । अ॒सि॒ष्यन् । शिशी॑त । तेजः॑ । अय॑सः । न । धारा॑म् ।
चि॒त्रऽध्र॑जतिः । अ॒र॒तिः । यः । अ॒क्तोः । वेः । न । द्रु॒ऽसद्वा॑ । र॒घु॒पत्म॑ऽजंहाः ॥
सः । इत् । अस्ताऽइव । प्रति । धात् । असिष्यन् । शिशीत । तेजः । अयसः । न । धाराम् ।
चित्रऽध्रजतिः । अरतिः । यः । अक्तोः । वेः । न । द्रुऽसद्वा । रघुपत्मऽजंहाः ॥
sáḥ ǀ ít ǀ ástā-iva ǀ práti ǀ dhāt ǀ asiṣyán ǀ śíśīta ǀ téjaḥ ǀ áyasaḥ ǀ ná ǀ dhā́rām ǀ
citrá-dhrajatiḥ ǀ aratíḥ ǀ yáḥ ǀ aktóḥ ǀ véḥ ǀ ná ǀ dru-sádvā ǀ raghupátma-jaṃhāḥ ǁ
saḥ ǀ it ǀ astā-iva ǀ prati ǀ dhāt ǀ asiṣyan ǀ śiśīta ǀ tejaḥ ǀ ayasaḥ ǀ na ǀ dhārām ǀ
citra-dhrajatiḥ ǀ aratiḥ ǀ yaḥ ǀ aktoḥ ǀ veḥ ǀ na ǀ dru-sadvā ǀ raghupatma-jaṃhāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.003.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.5.03.05
- Maṇḍala · Anuvāka · Ṛk
- 06.01.029
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.