Ṛk 6.9.6
Saṃhitā
वि मे॒ कर्णा॑ पतयतो॒ वि चक्षु॒र्वी॒३॒॑दं ज्योति॒र्हृद॑य॒ आहि॑तं॒ यत् ।
वि मे॒ मन॑श्चरति दू॒रआ॑धीः॒ किं स्वि॑द्व॒क्ष्यामि॒ किमु॒ नू म॑निष्ये ॥
वि मे कर्णा पतयतो वि चक्षुर् वीदं ज्योतिर् हृदय आहितं यत् |
वि मे मनश् चरति दूरआधीः किं स्विद् वक्ष्यामि किम् उ नू मनिष्ये ||
ví me kárṇā patayato ví cákṣurvī́dám jyótirhṛ́daya ā́hitam yát ǀ
ví me mánaścarati dūráādhīḥ kím svidvakṣyā́mi kímu nū́ maniṣye ǁ
vi me karṇā patayato vi cakṣur vīdaṃ jyotir hṛdaya āhitaṃ yat |
vi me manaś carati dūraādhīḥ kiṃ svid vakṣyāmi kim u nū maniṣye ||
Padapāṭha
वि । मे॒ । कर्णा॑ । प॒त॒य॒तः॒ । वि । चक्षुः॑ । वि । इ॒दम् । ज्योतिः॑ । हृद॑ये । आऽहि॑तम् । यत् ।
वि । मे॒ । मनः॑ । च॒र॒ति॒ । दू॒रेऽआ॑धीः । किम् । स्वि॒त् । व॒क्ष्यामि॑ । किम् । ऊं॒ इति॑ । नु । म॒नि॒ष्ये॒ ॥
वि । मे । कर्णा । पतयतः । वि । चक्षुः । वि । इदम् । ज्योतिः । हृदये । आऽहितम् । यत् ।
वि । मे । मनः । चरति । दूरेऽआधीः । किम् । स्वित् । वक्ष्यामि । किम् । ऊं इति । नु । मनिष्ये ॥
ví ǀ me ǀ kárṇā ǀ patayataḥ ǀ ví ǀ cákṣuḥ ǀ ví ǀ idám ǀ jyótiḥ ǀ hṛ́daye ǀ ā́-hitam ǀ yát ǀ
ví ǀ me ǀ mánaḥ ǀ carati ǀ dūré-ādhīḥ ǀ kím ǀ svit ǀ vakṣyā́mi ǀ kím ǀ ūṃ íti ǀ nú ǀ maniṣye ǁ
vi ǀ me ǀ karṇā ǀ patayataḥ ǀ vi ǀ cakṣuḥ ǀ vi ǀ idam ǀ jyotiḥ ǀ hṛdaye ǀ ā-hitam ǀ yat ǀ
vi ǀ me ǀ manaḥ ǀ carati ǀ dūre-ādhīḥ ǀ kim ǀ svit ǀ vakṣyāmi ǀ kim ǀ ūṃ iti ǀ nu ǀ maniṣye ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.009.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.5.11.06
- Maṇḍala · Anuvāka · Ṛk
- 06.01.074
- Devatā देवता
- Agni Vaiśvānara
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.