Ṛk 6.41.2
Saṃhitā
या ते॑ का॒कुत्सुकृ॑ता॒ या वरि॑ष्ठा॒ यया॒ शश्व॒त्पिब॑सि॒ मध्व॑ ऊ॒र्मिं ।
तया॑ पाहि॒ प्र ते॑ अध्व॒र्युर॑स्था॒त्सं ते॒ वज्रो॑ वर्ततामिंद्र ग॒व्युः ॥
या ते काकुत् सुकृता या वरिष्ठा यया शश्वत् पिबसि मध्व ऊर्मिम् |
तया पाहि प्र ते अध्वर्युर् अस्थात् सं ते वज्रो वर्तताम् इन्द्र गव्युः ||
yā́ te kākútsúkṛtā yā́ váriṣṭhā yáyā śáśvatpíbasi mádhva ūrmím ǀ
táyā pāhi prá te adhvaryúrasthātsám te vájro vartatāmindra gavyúḥ ǁ
yā te kākut sukṛtā yā variṣṭhā yayā śaśvat pibasi madhva ūrmim |
tayā pāhi pra te adhvaryur asthāt saṃ te vajro vartatām indra gavyuḥ ||
Padapāṭha
या । ते॒ । का॒कुत् । सुऽकृ॑ता । या । वरि॑ष्ठा । यया॑ । शश्व॑त् । पिब॑सि । मध्वः॑ । ऊ॒र्मिम् ।
तया॑ । पा॒हि॒ । प्र । ते॒ । अ॒ध्व॒र्युः । अ॒स्था॒त् । सम् । ते॒ । वज्रः॑ । व॒र्त॒ता॒म् । इ॒न्द्र॒ । ग॒व्युः ॥
या । ते । काकुत् । सुऽकृता । या । वरिष्ठा । यया । शश्वत् । पिबसि । मध्वः । ऊर्मिम् ।
तया । पाहि । प्र । ते । अध्वर्युः । अस्थात् । सम् । ते । वज्रः । वर्तताम् । इन्द्र । गव्युः ॥
yā́ ǀ te ǀ kākút ǀ sú-kṛtā ǀ yā́ ǀ váriṣṭhā ǀ yáyā ǀ śáśvat ǀ píbasi ǀ mádhvaḥ ǀ ūrmím ǀ
táyā ǀ pāhi ǀ prá ǀ te ǀ adhvaryúḥ ǀ asthāt ǀ sám ǀ te ǀ vájraḥ ǀ vartatām ǀ indra ǀ gavyúḥ ǁ
yā ǀ te ǀ kākut ǀ su-kṛtā ǀ yā ǀ variṣṭhā ǀ yayā ǀ śaśvat ǀ pibasi ǀ madhvaḥ ǀ ūrmim ǀ
tayā ǀ pāhi ǀ pra ǀ te ǀ adhvaryuḥ ǀ asthāt ǀ sam ǀ te ǀ vajraḥ ǀ vartatām ǀ indra ǀ gavyuḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.041.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.7.13.02
- Maṇḍala · Anuvāka · Ṛk
- 06.03.106
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.