Ṛk 6.29.3
Saṃhitā
श्रि॒ये ते॒ पादा॒ दुव॒ आ मि॑मिक्षुर्धृ॒ष्णुर्व॒ज्री शव॑सा॒ दक्षि॑णावान् ।
वसा॑नो॒ अत्कं॑ सुर॒भिं दृ॒शे कं स्व१॒॑र्ण नृ॑तविषि॒रो ब॑भूथ ॥
श्रिये ते पादा दुव आ मिमिक्षुर् धृष्णुर् वज्री शवसा दक्षिणावान् |
वसानो अत्कं सुरभिं दृशे कं स्वर् ण नृतव् इषिरो बभूथ ||
śriyé te pā́dā dúva ā́ mimikṣurdhṛṣṇúrvajrī́ śávasā dákṣiṇāvān ǀ
vásāno átkam surabhím dṛśé kám svárṇá nṛtaviṣiró babhūtha ǁ
śriye te pādā duva ā mimikṣur dhṛṣṇur vajrī śavasā dakṣiṇāvān |
vasāno atkaṃ surabhiṃ dṛśe kaṃ svar ṇa nṛtav iṣiro babhūtha ||
Padapāṭha
श्रि॒ये । ते॒ । पादा॑ । दुवः॑ । आ । मि॒मि॒क्षुः॒ । धृ॒ष्णुः । व॒ज्री । शव॑सा । दक्षि॑णऽवान् ।
वसा॑नः । अत्क॑म् । सु॒र॒भिम् । दृ॒शे । कम् । स्वः॑ । न । नृ॒तो॒ इति॑ । इ॒षि॒रः । ब॒भू॒थ॒ ॥
श्रिये । ते । पादा । दुवः । आ । मिमिक्षुः । धृष्णुः । वज्री । शवसा । दक्षिणऽवान् ।
वसानः । अत्कम् । सुरभिम् । दृशे । कम् । स्वः । न । नृतो इति । इषिरः । बभूथ ॥
śriyé ǀ te ǀ pā́dā ǀ dúvaḥ ǀ ā́ ǀ mimikṣuḥ ǀ dhṛṣṇúḥ ǀ vajrī́ ǀ śávasā ǀ dákṣiṇa-vān ǀ
vásānaḥ ǀ átkam ǀ surabhím ǀ dṛśé ǀ kám ǀ sváḥ ǀ ná ǀ nṛto íti ǀ iṣiráḥ ǀ babhūtha ǁ
śriye ǀ te ǀ pādā ǀ duvaḥ ǀ ā ǀ mimikṣuḥ ǀ dhṛṣṇuḥ ǀ vajrī ǀ śavasā ǀ dakṣiṇa-vān ǀ
vasānaḥ ǀ atkam ǀ surabhim ǀ dṛśe ǀ kam ǀ svaḥ ǀ na ǀ nṛto iti ǀ iṣiraḥ ǀ babhūtha ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.029.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.7.01.03
- Maṇḍala · Anuvāka · Ṛk
- 06.03.046
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.