Ṛk 6.29.2
Saṃhitā
आ यस्मि॒न्हस्ते॒ नर्या॑ मिमि॒क्षुरा रथे॑ हिर॒ण्यये॑ रथे॒ष्ठाः ।
आ र॒श्मयो॒ गभ॑स्त्योः स्थू॒रयो॒राध्व॒न्नश्वा॑सो॒ वृष॑णो युजा॒नाः ॥
आ यस्मिन् हस्ते नर्या मिमिक्षुर् आ रथे हिरण्यये रथेष्ठाः |
आ रश्मयो गभस्त्यो स्थूरयोर् आध्वन्न् अश्वासो वृषणो युजानाः ||
ā́ yásminháste náryā mimikṣúrā́ ráthe hiraṇyáye ratheṣṭhā́ḥ ǀ
ā́ raśmáyo gábhastyoḥ sthūráyorā́dhvannáśvāso vṛ́ṣaṇo yujānā́ḥ ǁ
ā yasmin haste naryā mimikṣur ā rathe hiraṇyaye ratheṣṭhāḥ |
ā raśmayo gabhastyo sthūrayor ādhvann aśvāso vṛṣaṇo yujānāḥ ||
Padapāṭha
आ । यस्मि॑न् । हस्ते॑ । नर्याः॑ । मि॒मि॒क्षुः । आ । रथे॑ । हि॒र॒ण्यये॑ । र॒थे॒ऽस्थाः ।
आ । र॒श्मयः॑ । गभ॑स्त्योः । स्थू॒रयोः॑ । आ । अध्व॑न् । अश्वा॑सः । वृष॑णः । यु॒जा॒नाः ॥
आ । यस्मिन् । हस्ते । नर्याः । मिमिक्षुः । आ । रथे । हिरण्यये । रथेऽस्थाः ।
आ । रश्मयः । गभस्त्योः । स्थूरयोः । आ । अध्वन् । अश्वासः । वृषणः । युजानाः ॥
ā́ ǀ yásmin ǀ háste ǀ náryāḥ ǀ mimikṣúḥ ǀ ā́ ǀ ráthe ǀ hiraṇyáye ǀ rathe-sthā́ḥ ǀ
ā́ ǀ raśmáyaḥ ǀ gábhastyoḥ ǀ sthūráyoḥ ǀ ā́ ǀ ádhvan ǀ áśvāsaḥ ǀ vṛ́ṣaṇaḥ ǀ yujānā́ḥ ǁ
ā ǀ yasmin ǀ haste ǀ naryāḥ ǀ mimikṣuḥ ǀ ā ǀ rathe ǀ hiraṇyaye ǀ rathe-sthāḥ ǀ
ā ǀ raśmayaḥ ǀ gabhastyoḥ ǀ sthūrayoḥ ǀ ā ǀ adhvan ǀ aśvāsaḥ ǀ vṛṣaṇaḥ ǀ yujānāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.029.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.7.01.02
- Maṇḍala · Anuvāka · Ṛk
- 06.03.045
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.