Ṛk 6.32.3
Saṃhitā
स वह्नि॑भि॒र्ऋक्व॑भि॒र्गोषु॒ शश्व॑न्मि॒तज्ञु॑भिः पुरु॒कृत्वा॑ जिगाय ।
पुरः॑ पुरो॒हा सखि॑भिः सखी॒यंदृ॒ळ्हा रु॑रोज क॒विभिः॑ क॒विः सन् ॥
स वह्निभिर् ऋक्वभिर् गोषु शश्वन् मितज्ञुभिः पुरुकृत्वा जिगाय |
पुरः पुरोहा सखिभिः सखीयन् दृऌहा रुरोज कविभिः कविः सन् ||
sá váhnibhirṛ́kvabhirgóṣu śáśvanmitájñubhiḥ purukṛ́tvā jigāya ǀ
púraḥ purohā́ sákhibhiḥ sakhīyándṛḷhā́ ruroja kavíbhiḥ kavíḥ sán ǁ
sa vahnibhir ṛkvabhir goṣu śaśvan mitajñubhiḥ purukṛtvā jigāya |
puraḥ purohā sakhibhiḥ sakhīyan dṛḷhā ruroja kavibhiḥ kaviḥ san ||
Padapāṭha
सः । वह्नि॑ऽभिः । ऋक्व॑ऽभिः । गोषु॑ । शश्व॑त् । मि॒तज्ञु॑ऽभिः । पु॒रु॒ऽकृत्वा॑ । जि॒गा॒य॒ ।
पुरः॑ । पु॒रः॒ऽहा । सखि॑ऽभिः । स॒खि॒ऽयन् । दृ॒ळ्हाः । रु॒रो॒ज॒ । क॒विऽभिः॑ । क॒विः । सन् ॥
सः । वह्निऽभिः । ऋक्वऽभिः । गोषु । शश्वत् । मितज्ञुऽभिः । पुरुऽकृत्वा । जिगाय ।
पुरः । पुरःऽहा । सखिऽभिः । सखिऽयन् । दृळ्हाः । रुरोज । कविऽभिः । कविः । सन् ॥
sáḥ ǀ váhni-bhiḥ ǀ ṛ́kva-bhiḥ ǀ góṣu ǀ śáśvat ǀ mitájñu-bhiḥ ǀ puru-kṛ́tvā ǀ jigāya ǀ
púraḥ ǀ puraḥ-hā́ ǀ sákhi-bhiḥ ǀ sakhi-yán ǀ dṛḷhā́ḥ ǀ ruroja ǀ kaví-bhiḥ ǀ kavíḥ ǀ sán ǁ
saḥ ǀ vahni-bhiḥ ǀ ṛkva-bhiḥ ǀ goṣu ǀ śaśvat ǀ mitajñu-bhiḥ ǀ puru-kṛtvā ǀ jigāya ǀ
puraḥ ǀ puraḥ-hā ǀ sakhi-bhiḥ ǀ sakhi-yan ǀ dṛḷhāḥ ǀ ruroja ǀ kavi-bhiḥ ǀ kaviḥ ǀ san ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.032.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.7.04.03
- Maṇḍala · Anuvāka · Ṛk
- 06.03.062
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Suhotra Bhāradvāja
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.