Ṛk 6.63.9
Saṃhitā
उ॒त म॑ ऋ॒ज्रे पुर॑यस्य र॒घ्वी सु॑मी॒ळ्हे श॒तं पे॑रु॒के च॑ प॒क्वा ।
शां॒डो दा॑द्धिर॒णिनः॒ स्मद्दि॑ष्टीं॒दश॑ व॒शासो॑ अभि॒षाच॑ ऋ॒ष्वान् ॥
उत म ऋज्रे पुरयस्य रघ्वी सुमीऌहे शतम् पेरुके च पक्वा |
शाण्डो दाद् धिरणिनः स्मद्दिष्टीन् दश वशासो अभिषाच ऋष्वान् ||
utá ma ṛjré púrayasya raghvī́ sumīḷhé śatám peruké ca pakvā́ ǀ
śāṇḍó dāddhiraṇínaḥ smáddiṣṭīndáśa vaśā́so abhiṣā́ca ṛṣvā́n ǁ
uta ma ṛjre purayasya raghvī sumīḷhe śatam peruke ca pakvā |
śāṇḍo dād dhiraṇinaḥ smaddiṣṭīn daśa vaśāso abhiṣāca ṛṣvān ||
Padapāṭha
उ॒त । मे॒ । ऋ॒ज्रे इति॑ । पुर॑यस्य । र॒घ्वी इति॑ । सु॒ऽमी॒ळ्हे । श॒तम् । पे॒रु॒के । च॒ । प॒क्वा ।
शा॒ण्डः । दा॒त् । हि॒र॒णिनः॑ । स्मत्ऽदि॑ष्टीन् । दश॑ । व॒शासः॑ । अ॒भि॒ऽसाचः॑ । ऋ॒ष्वान् ॥
उत । मे । ऋज्रे इति । पुरयस्य । रघ्वी इति । सुऽमीळ्हे । शतम् । पेरुके । च । पक्वा ।
शाण्डः । दात् । हिरणिनः । स्मत्ऽदिष्टीन् । दश । वशासः । अभिऽसाचः । ऋष्वान् ॥
utá ǀ me ǀ ṛjré íti ǀ púrayasya ǀ raghvī́ íti ǀ su-mīḷhé ǀ śatám ǀ peruké ǀ ca ǀ pakvā́ ǀ
śāṇḍáḥ ǀ dāt ǀ hiraṇínaḥ ǀ smát-diṣṭīn ǀ dáśa ǀ vaśā́saḥ ǀ abhi-sā́caḥ ǀ ṛṣvā́n ǁ
uta ǀ me ǀ ṛjre iti ǀ purayasya ǀ raghvī iti ǀ su-mīḷhe ǀ śatam ǀ peruke ǀ ca ǀ pakvā ǀ
śāṇḍaḥ ǀ dāt ǀ hiraṇinaḥ ǀ smat-diṣṭīn ǀ daśa ǀ vaśāsaḥ ǀ abhi-sācaḥ ǀ ṛṣvān ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.063.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.1.04.04
- Maṇḍala · Anuvāka · Ṛk
- 06.06.020
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh, Ekapadā
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.