Ṛk 6.63.2
Saṃhitā
अरं॑ मे गंतं॒ हव॑नाया॒स्मै गृ॑णा॒ना यथा॒ पिबा॑थो॒ अंधः॑ ।
परि॑ ह॒ त्यद्व॒र्तिर्या॑थो रि॒षो न यत्परो॒ नांत॑रस्तुतु॒र्यात् ॥
अरम् मे गन्तं हवनायास्मै गृणाना यथा पिबाथो अन्धः |
परि ह त्यद् वर्तिर् याथो रिषो न यत् परो नान्तरस् तुतुर्यात् ||
áram me gantam hávanāyāsmái gṛṇānā́ yáthā píbātho ándhaḥ ǀ
pári ha tyádvartíryātho riṣó ná yátpáro nā́ntarastuturyā́t ǁ
aram me gantaṃ havanāyāsmai gṛṇānā yathā pibātho andhaḥ |
pari ha tyad vartir yātho riṣo na yat paro nāntaras tuturyāt ||
Padapāṭha
अर॑म् । मे॒ । ग॒न्त॒म् । हव॑नाय । अ॒स्मै । गृ॒णा॒ना । यथा॑ । पिबा॑थः । अन्धः॑ ।
परि॑ । ह॒ । त्यत् । व॒र्तिः । या॒थः॒ । रि॒षः । न । यत् । परः॑ । न । अन्त॑रः । तु॒तु॒र्यात् ॥
अरम् । मे । गन्तम् । हवनाय । अस्मै । गृणाना । यथा । पिबाथः । अन्धः ।
परि । ह । त्यत् । वर्तिः । याथः । रिषः । न । यत् । परः । न । अन्तरः । तुतुर्यात् ॥
áram ǀ me ǀ gantam ǀ hávanāya ǀ asmái ǀ gṛṇānā́ ǀ yáthā ǀ píbāthaḥ ǀ ándhaḥ ǀ
pári ǀ ha ǀ tyát ǀ vartíḥ ǀ yāthaḥ ǀ riṣáḥ ǀ ná ǀ yát ǀ páraḥ ǀ ná ǀ ántaraḥ ǀ tuturyā́t ǁ
aram ǀ me ǀ gantam ǀ havanāya ǀ asmai ǀ gṛṇānā ǀ yathā ǀ pibāthaḥ ǀ andhaḥ ǀ
pari ǀ ha ǀ tyat ǀ vartiḥ ǀ yāthaḥ ǀ riṣaḥ ǀ na ǀ yat ǀ paraḥ ǀ na ǀ antaraḥ ǀ tuturyāt ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.063.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.1.03.02
- Maṇḍala · Anuvāka · Ṛk
- 06.06.013
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh, Ekapadā
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.