Ṛk 6.63.6
Saṃhitā
यु॒वं श्री॒भिर्द॑र्श॒ताभि॑रा॒भिः शु॒भे पु॒ष्टिमू॑हथुः सू॒र्यायाः॑ ।
प्र वां॒ वयो॒ वपु॒षेऽनु॑ पप्त॒न्नक्ष॒द्वाणी॒ सुष्टु॑ता धिष्ण्या वां ॥
युवं श्रीभिर् दर्शताभिर् आभिः शुभे पुष्टिम् ऊहथुः सूर्यायाः |
प्र वां वयो वपुषे ऽनु पप्तन् नक्षद् वाणी सुष्टुता धिष्ण्या वाम् ||
yuvám śrībhírdarśatā́bhirābhíḥ śubhé puṣṭímūhathuḥ sūryā́yāḥ ǀ
prá vām váyo vápuṣé’nu paptannákṣadvā́ṇī súṣṭutā dhiṣṇyā vām ǁ
yuvaṃ śrībhir darśatābhir ābhiḥ śubhe puṣṭim ūhathuḥ sūryāyāḥ |
pra vāṃ vayo vapuṣe 'nu paptan nakṣad vāṇī suṣṭutā dhiṣṇyā vām ||
Padapāṭha
यु॒वम् । श्री॒भिः । द॒र्श॒ताभिः॑ । आ॒भिः । शु॒भे । पु॒ष्टिम् । ऊ॒ह॒थुः॒ । सू॒र्यायाः॑ ।
प्र । वा॒म् । वयः॑ । वपु॑षे । अनु॑ । प॒प्त॒न् । नक्ष॑त् । वाणी॑ । सुऽस्तु॑ता । धि॒ष्ण्या॒ । वा॒म् ॥
युवम् । श्रीभिः । दर्शताभिः । आभिः । शुभे । पुष्टिम् । ऊहथुः । सूर्यायाः ।
प्र । वाम् । वयः । वपुषे । अनु । पप्तन् । नक्षत् । वाणी । सुऽस्तुता । धिष्ण्या । वाम् ॥
yuvám ǀ śrībhíḥ ǀ darśatā́bhiḥ ǀ ābhíḥ ǀ śubhé ǀ puṣṭím ǀ ūhathuḥ ǀ sūryā́yāḥ ǀ
prá ǀ vām ǀ váyaḥ ǀ vápuṣe ǀ ánu ǀ paptan ǀ nákṣat ǀ vā́ṇī ǀ sú-stutā ǀ dhiṣṇyā ǀ vām ǁ
yuvam ǀ śrībhiḥ ǀ darśatābhiḥ ǀ ābhiḥ ǀ śubhe ǀ puṣṭim ǀ ūhathuḥ ǀ sūryāyāḥ ǀ
pra ǀ vām ǀ vayaḥ ǀ vapuṣe ǀ anu ǀ paptan ǀ nakṣat ǀ vāṇī ǀ su-stutā ǀ dhiṣṇyā ǀ vām ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.063.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.1.04.01
- Maṇḍala · Anuvāka · Ṛk
- 06.06.017
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh, Ekapadā
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.