Ṛk 6.63.1
Saṃhitā
क्व१॒॑ त्या व॒ल्गू पु॑रुहू॒ताद्य दू॒तो न स्तोमो॑ऽविद॒न्नम॑स्वान् ।
आ यो अ॒र्वाङ्नास॑त्या व॒वर्त॒ प्रेष्ठा॒ ह्यस॑थो अस्य॒ मन्म॑न् ॥
क्व त्या वल्गू पुरुहूताद्य दूतो न स्तोमो ऽविदन् नमस्वान् |
आ यो अर्वाङ् नासत्या ववर्त प्रेष्ठा ह्य् असथो अस्य मन्मन् ||
kvá tyā́ valgū́ puruhūtā́dyá dūtó ná stómo’vidannámasvān ǀ
ā́ yó arvā́ṅnā́satyā vavárta préṣṭhā hyásatho asya mánman ǁ
kva tyā valgū puruhūtādya dūto na stomo 'vidan namasvān |
ā yo arvāṅ nāsatyā vavarta preṣṭhā hy asatho asya manman ||
Padapāṭha
क्व॑ । त्या । व॒ल्गू इति॑ । पु॒रु॒ऽहू॒ता । अ॒द्य । दू॒तः । न । स्तोमः॑ । अ॒वि॒द॒त् । नम॑स्वान् ।
आ । यः । अ॒र्वाक् । नास॑त्या । व॒वर्त॑ । प्रेष्ठा॑ । हि । अस॑थः । अ॒स्य॒ । मन्म॑न् ॥
क्व । त्या । वल्गू इति । पुरुऽहूता । अद्य । दूतः । न । स्तोमः । अविदत् । नमस्वान् ।
आ । यः । अर्वाक् । नासत्या । ववर्त । प्रेष्ठा । हि । असथः । अस्य । मन्मन् ॥
kvá ǀ tyā́ ǀ valgū́ íti ǀ puru-hūtā́ ǀ adyá ǀ dūtáḥ ǀ ná ǀ stómaḥ ǀ avidat ǀ námasvān ǀ
ā́ ǀ yáḥ ǀ arvā́k ǀ nā́satyā ǀ vavárta ǀ préṣṭhā ǀ hí ǀ ásathaḥ ǀ asya ǀ mánman ǁ
kva ǀ tyā ǀ valgū iti ǀ puru-hūtā ǀ adya ǀ dūtaḥ ǀ na ǀ stomaḥ ǀ avidat ǀ namasvān ǀ
ā ǀ yaḥ ǀ arvāk ǀ nāsatyā ǀ vavarta ǀ preṣṭhā ǀ hi ǀ asathaḥ ǀ asya ǀ manman ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.063.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.1.03.01
- Maṇḍala · Anuvāka · Ṛk
- 06.06.012
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh, Ekapadā
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.