Ṛk 6.45.31
Saṃhitā
अधि॑ बृ॒बुः प॑णी॒नां वर्षि॑ष्ठे मू॒र्धन्न॑स्थात् ।
उ॒रुः कक्षो॒ न गां॒ग्यः ॥
अधि बृबुः पणीनां वर्षिष्ठे मूर्धन्न् अस्थात् |
उरुः कक्षो न गाङ्ग्यः ||
ádhi bṛbúḥ paṇīnā́m várṣiṣṭhe mūrdhánnasthāt ǀ
urúḥ kákṣo ná gāṅgyáḥ ǁ
adhi bṛbuḥ paṇīnāṃ varṣiṣṭhe mūrdhann asthāt |
uruḥ kakṣo na gāṅgyaḥ ||
Padapāṭha
अधि॑ । बृ॒बुः । प॒णी॒नाम् । वर्षि॑ष्ठे । मू॒र्धन् । अ॒स्था॒त् ।
उ॒रुः । कक्षः॑ । न । गा॒ङ्ग्यः ॥
अधि । बृबुः । पणीनाम् । वर्षिष्ठे । मूर्धन् । अस्थात् ।
उरुः । कक्षः । न । गाङ्ग्यः ॥
ádhi ǀ bṛbúḥ ǀ paṇīnā́m ǀ várṣiṣṭhe ǀ mūrdhán ǀ asthāt ǀ
urúḥ ǀ kákṣaḥ ǀ ná ǀ gāṅgyáḥ ǁ
adhi ǀ bṛbuḥ ǀ paṇīnām ǀ varṣiṣṭhe ǀ mūrdhan ǀ asthāt ǀ
uruḥ ǀ kakṣaḥ ǀ na ǀ gāṅgyaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.045.31
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.7.26.06
- Maṇḍala · Anuvāka · Ṛk
- 06.04.055
- Devatā देवता
- 1-30: Indra; 31-33: Bṛbu Takṣan
- Ṛṣi ऋषि
- Śaṃyu Bārhaspatya
- Chandas छन्दस्
- Gāyatrī, Atinicṛt, Anuṣṭubh
- Svara स्वरः
- ऋषभः
Text and interpretations from the Ṛgveda database of theveda.org.in.