Ṛk 6.19.3
Saṃhitā
पृ॒थू क॒रस्ना॑ बहु॒ला गभ॑स्ती अस्म॒द्र्य१॒॑क्सं मि॑मीहि॒ श्रवां॑सि ।
यू॒थेव॑ प॒श्वः प॑शु॒पा दमू॑ना अ॒स्माँ इं॑द्रा॒भ्या व॑वृत्स्वा॒जौ ॥
पृथू करस्ना बहुला गभस्ती अस्मद्र्यक् सम् मिमीहि श्रवांसि |
यूथेव पश्वः पशुपा दमूना अस्मां इन्द्राभ्य् आ ववृत्स्वाजौ ||
pṛthū́ karásnā bahulā́ gábhastī asmadryáksám mimīhi śrávāṃsi ǀ
yūthéva paśváḥ paśupā́ dámūnā asmā́m̐ indrābhyā́ vavṛtsvājáu ǁ
pṛthū karasnā bahulā gabhastī asmadryak sam mimīhi śravāṃsi |
yūtheva paśvaḥ paśupā damūnā asmāṃ indrābhy ā vavṛtsvājau ||
Padapāṭha
पृ॒थू इति॑ । क॒रस्ना॑ । ब॒हु॒ला । गभ॑स्ती॒ इति॑ । अ॒स्म॒द्र्य॑क् । सम् । मि॒मी॒हि॒ । श्रवां॑सि ।
यू॒थाऽइ॑व । प॒श्वः । प॒शु॒ऽपाः । दमू॑नाः । अ॒स्मान् । इ॒न्द्र॒ । अ॒भि । आ । व॒वृ॒त्स्व॒ । आ॒जौ ॥
पृथू इति । करस्ना । बहुला । गभस्ती इति । अस्मद्र्यक् । सम् । मिमीहि । श्रवांसि ।
यूथाऽइव । पश्वः । पशुऽपाः । दमूनाः । अस्मान् । इन्द्र । अभि । आ । ववृत्स्व । आजौ ॥
pṛthū́ íti ǀ karásnā ǀ bahulā́ ǀ gábhastī íti ǀ asmadryák ǀ sám ǀ mimīhi ǀ śrávāṃsi ǀ
yūthā́-iva ǀ paśváḥ ǀ paśu-pā́ḥ ǀ dámūnāḥ ǀ asmā́n ǀ indra ǀ abhí ǀ ā́ ǀ vavṛtsva ǀ ājáu ǁ
pṛthū iti ǀ karasnā ǀ bahulā ǀ gabhastī iti ǀ asmadryak ǀ sam ǀ mimīhi ǀ śravāṃsi ǀ
yūthā-iva ǀ paśvaḥ ǀ paśu-pāḥ ǀ damūnāḥ ǀ asmān ǀ indra ǀ abhi ǀ ā ǀ vavṛtsva ǀ ājau ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.019.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.6.07.03
- Maṇḍala · Anuvāka · Ṛk
- 06.02.081
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.