Ṛk 6.19.12
Saṃhitā
जनं॑ वज्रि॒न्महि॑ चि॒न्मन्य॑मानमे॒भ्यो नृभ्यो॑ रंधया॒ येष्वस्मि॑ ।
अधा॒ हि त्वा॑ पृथि॒व्यां शूर॑सातौ॒ हवा॑महे॒ तन॑ये॒ गोष्व॒प्सु ॥
जनं वज्रिन् महि चिन् मन्यमानम् एभ्यो नृभ्यो रन्धया येष्व् अस्मि |
अधा हि त्वा पृथिव्यां शूरसातौ हवामहे तनये गोष्व् अप्सु ||
jánam vajrinmáhi cinmányamānamebhyó nṛ́bhyo randhayā yéṣvásmi ǀ
ádhā hí tvā pṛthivyā́m śū́rasātau hávāmahe tánaye góṣvapsú ǁ
janaṃ vajrin mahi cin manyamānam ebhyo nṛbhyo randhayā yeṣv asmi |
adhā hi tvā pṛthivyāṃ śūrasātau havāmahe tanaye goṣv apsu ||
Padapāṭha
जन॑म् । व॒ज्रि॒न् । महि॑ । चि॒त् । मन्य॑मानम् । ए॒भ्यः । नृऽभ्यः॑ । र॒न्ध॒य॒ । येषु॑ । अस्मि॑ ।
अध॑ । हि । त्वा॒ । पृ॒थि॒व्याम् । शूर॑ऽसातौ । हवा॑महे । तन॑ये । गोषु॑ । अ॒प्ऽसु ॥
जनम् । वज्रिन् । महि । चित् । मन्यमानम् । एभ्यः । नृऽभ्यः । रन्धय । येषु । अस्मि ।
अध । हि । त्वा । पृथिव्याम् । शूरऽसातौ । हवामहे । तनये । गोषु । अप्ऽसु ॥
jánam ǀ vajrin ǀ máhi ǀ cit ǀ mányamānam ǀ ebhyáḥ ǀ nṛ́-bhyaḥ ǀ randhaya ǀ yéṣu ǀ ásmi ǀ
ádha ǀ hí ǀ tvā ǀ pṛthivyā́m ǀ śū́ra-sātau ǀ hávāmahe ǀ tánaye ǀ góṣu ǀ ap-sú ǁ
janam ǀ vajrin ǀ mahi ǀ cit ǀ manyamānam ǀ ebhyaḥ ǀ nṛ-bhyaḥ ǀ randhaya ǀ yeṣu ǀ asmi ǀ
adha ǀ hi ǀ tvā ǀ pṛthivyām ǀ śūra-sātau ǀ havāmahe ǀ tanaye ǀ goṣu ǀ ap-su ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.019.12
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.6.08.07
- Maṇḍala · Anuvāka · Ṛk
- 06.02.090
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.