Ṛk 6.22.5
Saṃhitā
तं पृ॒च्छंती॒ वज्र॑हस्तं रथे॒ष्ठामिंद्रं॒ वेपी॒ वक्व॑री॒ यस्य॒ नू गीः ।
तु॒वि॒ग्रा॒भं तु॑विकू॒र्मिं र॑भो॒दां गा॒तुमि॑षे॒ नक्ष॑ते॒ तुम्र॒मच्छ॑ ॥
तम् पृच्छन्ती वज्रहस्तं रथेष्ठाम् इन्द्रं वेपी वक्वरी यस्य नू गीः |
तुविग्राभं तुविकूर्मिं रभोदां गातुम् इषे नक्षते तुम्रम् अच्छ ||
tám pṛcchántī vájrahastam ratheṣṭhā́míndram vépī vákvarī yásya nū́ gī́ḥ ǀ
tuvigrābhám tuvikūrmím rabhodā́m gātúmiṣe nákṣate túmramáccha ǁ
tam pṛcchantī vajrahastaṃ ratheṣṭhām indraṃ vepī vakvarī yasya nū gīḥ |
tuvigrābhaṃ tuvikūrmiṃ rabhodāṃ gātum iṣe nakṣate tumram accha ||
Padapāṭha
तम् । पृ॒च्छन्ती॑ । वज्र॑ऽहस्तम् । र॒थे॒ऽस्थाम् । इन्द्र॑म् । वेपी॑ । वक्व॑री । यस्य॑ । नु । गीः ।
तु॒वि॒ऽग्रा॒भम् । तु॒वि॒ऽकू॒र्मिम् । र॒भः॒ऽदाम् । गा॒तुम् । इ॒षे॒ । नक्ष॑ते । तुम्र॑म् । अच्छ॑ ॥
तम् । पृच्छन्ती । वज्रऽहस्तम् । रथेऽस्थाम् । इन्द्रम् । वेपी । वक्वरी । यस्य । नु । गीः ।
तुविऽग्राभम् । तुविऽकूर्मिम् । रभःऽदाम् । गातुम् । इषे । नक्षते । तुम्रम् । अच्छ ॥
tám ǀ pṛcchántī ǀ vájra-hastam ǀ rathe-sthā́m ǀ índram ǀ vépī ǀ vákvarī ǀ yásya ǀ nú ǀ gī́ḥ ǀ
tuvi-grābhám ǀ tuvi-kūrmím ǀ rabhaḥ-dā́m ǀ gātúm ǀ iṣe ǀ nákṣate ǀ túmram ǀ áccha ǁ
tam ǀ pṛcchantī ǀ vajra-hastam ǀ rathe-sthām ǀ indram ǀ vepī ǀ vakvarī ǀ yasya ǀ nu ǀ gīḥ ǀ
tuvi-grābham ǀ tuvi-kūrmim ǀ rabhaḥ-dām ǀ gātum ǀ iṣe ǀ nakṣate ǀ tumram ǀ accha ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.022.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.6.13.05
- Maṇḍala · Anuvāka · Ṛk
- 06.02.121
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.