Ṛgveda · Maṇḍala 6 · Sūkta 22

Ṛk 6.22.11

Indra · Bharadvāja Bārhaspatya

The whole sūkta Link

Saṃhitā

स नो॑ नि॒युद्भिः॑ पुरुहूत वेधो वि॒श्ववा॑राभि॒रा ग॑हि प्रयज्यो ।
न या अदे॑वो॒ वर॑ते॒ न दे॒व आभि॑र्याहि॒ तूय॒मा म॑द्र्य॒द्रिक् ॥

स नो नियुद्भिः पुरुहूत वेधो विश्ववाराभिर् आ गहि प्रयज्यो |
न या अदेवो वरते न देव आभिर् याहि तूयम् आ मद्र्यद्रिक् ||

sá no niyúdbhiḥ puruhūta vedho viśvávārābhirā́ gahi prayajyo ǀ
ná yā́ ádevo várate ná devá ā́bhiryāhi tū́yamā́ madryadrík ǁ

sa no niyudbhiḥ puruhūta vedho viśvavārābhir ā gahi prayajyo |
na yā adevo varate na deva ābhir yāhi tūyam ā madryadrik ||

Padapāṭha

सः । नः॒ । नि॒युत्ऽभिः॑ । पु॒रु॒ऽहू॒त॒ । वे॒धः॒ । वि॒श्वऽवा॑राभिः । आ । ग॒हि॒ । प्र॒य॒ज्यो॒ इति॑ प्रऽयज्यो ।
न । याः । अदे॑वः । वर॑ते । न । दे॒वः । आ । आ॒भिः॒ । या॒हि॒ । तूय॑म् । आ । म॒द्र्य॒द्रिक् ॥

सः । नः । नियुत्ऽभिः । पुरुऽहूत । वेधः । विश्वऽवाराभिः । आ । गहि । प्रयज्यो इति प्रऽयज्यो ।
न । याः । अदेवः । वरते । न । देवः । आ । आभिः । याहि । तूयम् । आ । मद्र्यद्रिक् ॥

sáḥ ǀ naḥ ǀ niyút-bhiḥ ǀ puru-hūta ǀ vedhaḥ ǀ viśvá-vārābhiḥ ǀ ā́ ǀ gahi ǀ prayajyo íti pra-yajyo ǀ
ná ǀ yā́ḥ ǀ ádevaḥ ǀ várate ǀ ná ǀ deváḥ ǀ ā́ ǀ ābhiḥ ǀ yāhi ǀ tū́yam ǀ ā́ ǀ madryadrík ǁ

saḥ ǀ naḥ ǀ niyut-bhiḥ ǀ puru-hūta ǀ vedhaḥ ǀ viśva-vārābhiḥ ǀ ā ǀ gahi ǀ prayajyo iti pra-yajyo ǀ
na ǀ yāḥ ǀ adevaḥ ǀ varate ǀ na ǀ devaḥ ǀ ā ǀ ābhiḥ ǀ yāhi ǀ tūyam ǀ ā ǀ madryadrik ǁ

References

Maṇḍala · Sūkta · Ṛk
06.022.11
Aṣṭaka · Adhyāya · Varga · Ṛk
4.6.14.06
Maṇḍala · Anuvāka · Ṛk
06.02.127
Devatā देवता
Indra
Ṛṣi ऋषि
Bharadvāja Bārhaspatya
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 6.22.11

Interpretations

Sāyaṇa

सुतइदितिदशर्चमष्टमंसूक्तं भरद्वाजस्यर्षं त्रैष्टुभमैन्द्रं सुतइद्दशेत्यनुक्रान्तं विषुवतिनिष्केवल्येइदंसूक्तं सूत्रितंच—सुतइत्त्वमेषप्रपूर्वीरि- ति । महाव्रतेपिनिष्केवल्येइदमादीनित्रीणिसूक्तानि तथैवपंचमारण्यकेसूत्रितं—सुतइत्त्वं निमिश्लइन्द्रसोमइतित्रीणीति ।