Ṛgveda · Maṇḍala 6 · Sūkta 60

Ṛk 6.60.15

Agni, Indra · Bharadvāja Bārhaspatya

The whole sūkta Link

Saṃhitā

इंद्रा॑ग्नी शृणु॒तं हवं॒ यज॑मानस्य सुन्व॒तः ।
वी॒तं ह॒व्यान्या ग॑तं॒ पिब॑तं सो॒म्यं मधु॑ ॥

इन्द्राग्नी शृणुतं हवं यजमानस्य सुन्वतः |
वीतं हव्यान्य् आ गतम् पिबतं सोम्यम् मधु ||

índrāgnī śṛṇutám hávam yájamānasya sunvatáḥ ǀ
vītám havyā́nyā́ gatam píbatam somyám mádhu ǁ

indrāgnī śṛṇutaṃ havaṃ yajamānasya sunvataḥ |
vītaṃ havyāny ā gatam pibataṃ somyam madhu ||

Padapāṭha

इन्द्रा॑ग्नी॒ इति॑ । शृ॒णु॒तम् । हव॑म् । यज॑मानस्य । सु॒न्व॒तः ।
वी॒तम् । ह॒व्यानि॑ । आ । ग॒त॒म् । पिब॑तम् । सो॒म्यम् । मधु॑ ॥

इन्द्राग्नी इति । शृणुतम् । हवम् । यजमानस्य । सुन्वतः ।
वीतम् । हव्यानि । आ । गतम् । पिबतम् । सोम्यम् । मधु ॥

índrāgnī íti ǀ śṛṇutám ǀ hávam ǀ yájamānasya ǀ sunvatáḥ ǀ
vītám ǀ havyā́ni ǀ ā́ ǀ gatam ǀ píbatam ǀ somyám ǀ mádhu ǁ

indrāgnī iti ǀ śṛṇutam ǀ havam ǀ yajamānasya ǀ sunvataḥ ǀ
vītam ǀ havyāni ǀ ā ǀ gatam ǀ pibatam ǀ somyam ǀ madhu ǁ

References

Maṇḍala · Sūkta · Ṛk
06.060.15
Aṣṭaka · Adhyāya · Varga · Ṛk
4.8.29.05
Maṇḍala · Anuvāka · Ṛk
06.05.115
Devatā देवता
Agni, Indra
Ṛṣi ऋषि
Bharadvāja Bārhaspatya
Chandas छन्दस्
Gāyatrī, Triṣṭubh, Bṛhatī, Anuṣṭubh
Svara स्वरः
गान्धारः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 6.60.15

Interpretations

Sāyaṇa

इयमददादितिचतुर्दशर्चंद्वादशंसूक्तं भरद्वाजस्यार्षं सरस्वतीदेवताकं आदितस्तिस्रोजगत्यः त्रयोदश्यपिजगती चतुर्दशीत्रिष्टुप् शिष्टा- गायत्र्यः तथाचानुक्रांतं—इयंषळूनासारस्वतंत्रिजगत्यादिजगतीत्रिष्टुबन्तमिति । अत्रशौनकः—इयमित्येतदाद्यन्तुसूक्तंसारस्वतंजपेत् । द्विजः प्रातः शुचिर्भूत्वावाग्मीभवतिबुद्धिमानिति १ पर्ष्ठिकेषष्ठेहनिप्रउगेइयमददादितिसारस्वतस्तृचः सूत्रितंच—इयमददाद्रभसमृण- च्युतमितिप्रउगमिति ।