Ṛgveda · Maṇḍala 6 · Sūkta 56

Ṛk 6.56.6

Pūṣan · Bharadvāja Bārhaspatya

The whole sūkta Link

Saṃhitā

आ ते॑ स्व॒स्तिमी॑मह आ॒रेअ॑घा॒मुपा॑वसुं ।
अ॒द्या च॑ स॒र्वता॑तये॒ श्वश्च॑ स॒र्वता॑तये ॥

आ ते स्वस्तिम् ईमह आरेअघाम् उपावसुम् |
अद्या च सर्वतातये श्वश् च सर्वतातये ||

ā́ te svastímīmaha āréaghāmúpāvasum ǀ
adyā́ ca sarvátātaye śváśca sarvátātaye ǁ

ā te svastim īmaha āreaghām upāvasum |
adyā ca sarvatātaye śvaś ca sarvatātaye ||

Padapāṭha

आ । ते॒ । स्व॒स्तिम् । ई॒म॒हे॒ । आ॒रेऽअ॑घाम् । उप॑ऽवसुम् ।
अ॒द्य । च॒ । स॒र्वऽता॑तये । श्वः । च॒ । स॒र्वऽता॑तये ॥

आ । ते । स्वस्तिम् । ईमहे । आरेऽअघाम् । उपऽवसुम् ।
अद्य । च । सर्वऽतातये । श्वः । च । सर्वऽतातये ॥

ā́ ǀ te ǀ svastím ǀ īmahe ǀ āré-aghām ǀ úpa-vasum ǀ
adyá ǀ ca ǀ sarvá-tātaye ǀ śváḥ ǀ ca ǀ sarvá-tātaye ǁ

ā ǀ te ǀ svastim ǀ īmahe ǀ āre-aghām ǀ upa-vasum ǀ
adya ǀ ca ǀ sarva-tātaye ǀ śvaḥ ǀ ca ǀ sarva-tātaye ǁ

References

Maṇḍala · Sūkta · Ṛk
06.056.06
Aṣṭaka · Adhyāya · Varga · Ṛk
4.8.22.06
Maṇḍala · Anuvāka · Ṛk
06.05.080
Devatā देवता
Pūṣan
Ṛṣi ऋषि
Bharadvāja Bārhaspatya
Chandas छन्दस्
Gāyatrī, Anuṣṭubh
Svara स्वरः
ऋषभः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 6.56.6

Interpretations

Sāyaṇa

हेपूषन्त्वदीयांत्वयादेयांस्वस्तिंकल्याणींरक्षां आरेअघांआरेदूरेअघंपापंयस्याः तादृशीं उपावसुं उपगतधनां ईदृशींस्वस्तिं अद्यच अस्मिं श्चकाले सर्वतातये सर्वैरृत्विग्भिः स्तायइतिसर्वतातिर्यज्ञः तदर्थं यद्वासर्वेषांभॊगानांविस्तारय श्वश्चपरस्मिन्नपिदिनेसर्वतातयेसर्वदासर्व- तात्यर्थंआईमहे अतियाचामहे । इन्द्रानुपूषणेतिषळृचमष्टमंसूक्तं भरद्वाजस्यार्षंगायत्रमैन्द्रापौष्णं अनुक्रान्तंच—इन्द्रान्वैन्द्रंचेति । गतोविनियोगः ।