Ṛk 6.31.3
Saṃhitā
त्वं कुत्से॑ना॒भि शुष्ण॑मिंद्रा॒शुषं॑ युध्य॒ कुय॑वं॒ गवि॑ष्टौ ।
दश॑ प्रपि॒त्वे अध॒ सूर्य॑स्य मुषा॒यश्च॒क्रमवि॑वे॒ रपां॑सि ॥
त्वं कुत्सेनाभि शुष्णम् इन्द्राशुषं युध्य कुयवं गविष्टौ |
दश प्रपित्वे अध सूर्यस्य मुषायश् चक्रम् अविवे रपांसि ||
tvám kútsenābhí śúṣṇamindrāśúṣam yudhya kúyavam gáviṣṭau ǀ
dáśa prapitvé ádha sū́ryasya muṣāyáścakrámávive rápāṃsi ǁ
tvaṃ kutsenābhi śuṣṇam indrāśuṣaṃ yudhya kuyavaṃ gaviṣṭau |
daśa prapitve adha sūryasya muṣāyaś cakram avive rapāṃsi ||
Padapāṭha
त्वम् । कुत्से॑न । अ॒भि । शुष्ण॑म् । इ॒न्द्र॒ । अ॒शुष॑म् । यु॒ध्य॒ । कुय॑वम् । गोऽइ॑ष्टौ ।
दश॑ । प्र॒ऽपि॒त्वे । अध॑ । सूर्य॑स्य । मु॒षा॒यः । च॒क्रम् । अवि॑वेः । रपां॑सि ॥
त्वम् । कुत्सेन । अभि । शुष्णम् । इन्द्र । अशुषम् । युध्य । कुयवम् । गोऽइष्टौ ।
दश । प्रऽपित्वे । अध । सूर्यस्य । मुषायः । चक्रम् । अविवेः । रपांसि ॥
tvám ǀ kútsena ǀ abhí ǀ śúṣṇam ǀ indra ǀ aśúṣam ǀ yudhya ǀ kúyavam ǀ gó-iṣṭau ǀ
dáśa ǀ pra-pitvé ǀ ádha ǀ sū́ryasya ǀ muṣāyáḥ ǀ cakrám ǀ áviveḥ ǀ rápāṃsi ǁ
tvam ǀ kutsena ǀ abhi ǀ śuṣṇam ǀ indra ǀ aśuṣam ǀ yudhya ǀ kuyavam ǀ go-iṣṭau ǀ
daśa ǀ pra-pitve ǀ adha ǀ sūryasya ǀ muṣāyaḥ ǀ cakram ǀ aviveḥ ǀ rapāṃsi ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.031.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.7.03.03
- Maṇḍala · Anuvāka · Ṛk
- 06.03.057
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Suhotra Bhāradvāja
- Chandas छन्दस्
- Triṣṭubh, Śakvarī
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.