Ṛk 6.31.5
Saṃhitā
स स॑त्यसत्वन्मह॒ते रणा॑य॒ रथ॒मा ति॑ष्ठ तुविनृम्ण भी॒मं ।
या॒हि प्र॑पथि॒न्नव॒सोप॑ म॒द्रिक्प्र च॑ श्रुत श्रावय चर्ष॒णिभ्यः॑ ॥
स सत्यसत्वन् महते रणाय रथम् आ तिष्ठ तुविनृम्ण भीमम् |
याहि प्रपथिन्न् अवसोप मद्रिक् प्र च श्रुत श्रावय चर्षणिभ्यः ||
sá satyasatvanmahaté ráṇāya ráthamā́ tiṣṭha tuvinṛmṇa bhīmám ǀ
yāhí prapathinnávasópa madríkprá ca śruta śrāvaya carṣaṇíbhyaḥ ǁ
sa satyasatvan mahate raṇāya ratham ā tiṣṭha tuvinṛmṇa bhīmam |
yāhi prapathinn avasopa madrik pra ca śruta śrāvaya carṣaṇibhyaḥ ||
Padapāṭha
सः । स॒त्य॒ऽस॒त्व॒न् । म॒ह॒ते । रणा॑य । रथ॑म् । आ । ति॒ष्ठ॒ । तु॒वि॒ऽनृ॒म्ण॒ । भी॒मम् ।
या॒हि । प्र॒ऽप॒थि॒न् । अव॑सा । उप॑ । म॒द्रिक् । प्र । च॒ । श्रु॒त॒ । श्र॒व॒य॒ । च॒र्ष॒णिऽभ्यः॑ ॥
सः । सत्यऽसत्वन् । महते । रणाय । रथम् । आ । तिष्ठ । तुविऽनृम्ण । भीमम् ।
याहि । प्रऽपथिन् । अवसा । उप । मद्रिक् । प्र । च । श्रुत । श्रवय । चर्षणिऽभ्यः ॥
sáḥ ǀ satya-satvan ǀ mahaté ǀ ráṇāya ǀ rátham ǀ ā́ ǀ tiṣṭha ǀ tuvi-nṛmṇa ǀ bhīmám ǀ
yāhí ǀ pra-pathin ǀ ávasā ǀ úpa ǀ madrík ǀ prá ǀ ca ǀ śruta ǀ śravaya ǀ carṣaṇí-bhyaḥ ǁ
saḥ ǀ satya-satvan ǀ mahate ǀ raṇāya ǀ ratham ǀ ā ǀ tiṣṭha ǀ tuvi-nṛmṇa ǀ bhīmam ǀ
yāhi ǀ pra-pathin ǀ avasā ǀ upa ǀ madrik ǀ pra ǀ ca ǀ śruta ǀ śravaya ǀ carṣaṇi-bhyaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.031.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.7.03.05
- Maṇḍala · Anuvāka · Ṛk
- 06.03.059
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Suhotra Bhāradvāja
- Chandas छन्दस्
- Triṣṭubh, Śakvarī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.