Ṛk 6.23.8
Saṃhitā
स मं॑दस्वा॒ ह्यनु॒ जोष॑मुग्र॒ प्र त्वा॑ य॒ज्ञास॑ इ॒मे अ॑श्नुवंतु ।
प्रेमे हवा॑सः पुरुहू॒तम॒स्मे आ त्वे॒यं धीरव॑स इंद्र यम्याः ॥
स मन्दस्वा ह्य् अनु जोषम् उग्र प्र त्वा यज्ञास इमे अश्नुवन्तु |
प्रेमे हवासः पुरुहूतम् अस्मे आ त्वेयं धीर् अवस इन्द्र यम्याः ||
sá mandasvā hyánu jóṣamugra prá tvā yajñā́sa imé aśnuvantu ǀ
prémé hávāsaḥ puruhūtámasmé ā́ tveyám dhī́rávasa indra yamyāḥ ǁ
sa mandasvā hy anu joṣam ugra pra tvā yajñāsa ime aśnuvantu |
preme havāsaḥ puruhūtam asme ā tveyaṃ dhīr avasa indra yamyāḥ ||
Padapāṭha
सः । म॒न्द॒स्व॒ । हि । अनु॑ । जोष॑म् । उ॒ग्र॒ । प्र । त्वा॒ । य॒ज्ञासः॑ । इ॒मे । अ॒श्नु॒व॒न्तु॒ ।
प्र । इ॒मे । हवा॑सः । पु॒रु॒ऽहू॒तम् । अ॒स्मे इति॑ । आ । त्वा॒ । इ॒यम् । धीः । अव॑से । इ॒न्द्र॒ । य॒म्याः॒ ॥
सः । मन्दस्व । हि । अनु । जोषम् । उग्र । प्र । त्वा । यज्ञासः । इमे । अश्नुवन्तु ।
प्र । इमे । हवासः । पुरुऽहूतम् । अस्मे इति । आ । त्वा । इयम् । धीः । अवसे । इन्द्र । यम्याः ॥
sáḥ ǀ mandasva ǀ hí ǀ ánu ǀ jóṣam ǀ ugra ǀ prá ǀ tvā ǀ yajñā́saḥ ǀ imé ǀ aśnuvantu ǀ
prá ǀ imé ǀ hávāsaḥ ǀ puru-hūtám ǀ asmé íti ǀ ā́ ǀ tvā ǀ iyám ǀ dhī́ḥ ǀ ávase ǀ indra ǀ yamyāḥ ǁ
saḥ ǀ mandasva ǀ hi ǀ anu ǀ joṣam ǀ ugra ǀ pra ǀ tvā ǀ yajñāsaḥ ǀ ime ǀ aśnuvantu ǀ
pra ǀ ime ǀ havāsaḥ ǀ puru-hūtam ǀ asme iti ǀ ā ǀ tvā ǀ iyam ǀ dhīḥ ǀ avase ǀ indra ǀ yamyāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.023.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.6.16.03
- Maṇḍala · Anuvāka · Ṛk
- 06.02.135
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.