Ṛk 6.23.5
Saṃhitā
अस्मै॑ व॒यं यद्वा॒वान॒ तद्वि॑विष्म॒ इंद्रा॑य॒ यो नः॑ प्र॒दिवो॒ अप॒स्कः ।
सु॒ते सोमे॑ स्तु॒मसि॒ शंस॑दु॒क्थेंद्रा॑य॒ ब्रह्म॒ वर्ध॑नं॒ यथास॑त् ॥
अस्मै वयं यद् वावान तद् विविष्म इन्द्राय यो नः प्रदिवो अपस् कः |
सुते सोमे स्तुमसि शंसद् उक्थेन्द्राय ब्रह्म वर्धनं यथासत् ||
ásmai vayám yádvāvā́na tádviviṣma índrāya yó naḥ pradívo ápaskáḥ ǀ
suté sóme stumási śáṃsadukthéndrāya bráhma várdhanam yáthā́sat ǁ
asmai vayaṃ yad vāvāna tad viviṣma indrāya yo naḥ pradivo apas kaḥ |
sute some stumasi śaṃsad ukthendrāya brahma vardhanaṃ yathāsat ||
Padapāṭha
अस्मै॑ । व॒यम् । यत् । व॒वान॑ । तत् । वि॒वि॒ष्मः॒ । इन्द्रा॑य । यः । नः॒ । प्र॒ऽदिवः॑ । अपः॑ । करिति॒ कः ।
सु॒ते । सोमे॑ । स्तु॒मसि॑ । शंस॑त् । उ॒क्था । इन्द्रा॑य । ब्रह्म॑ । वर्ध॑नम् । यथा॑ । अस॑त् ॥
अस्मै । वयम् । यत् । ववान । तत् । विविष्मः । इन्द्राय । यः । नः । प्रऽदिवः । अपः । करिति कः ।
सुते । सोमे । स्तुमसि । शंसत् । उक्था । इन्द्राय । ब्रह्म । वर्धनम् । यथा । असत् ॥
ásmai ǀ vayám ǀ yát ǀ vavā́na ǀ tát ǀ viviṣmaḥ ǀ índrāya ǀ yáḥ ǀ naḥ ǀ pra-dívaḥ ǀ ápaḥ ǀ káríti káḥ ǀ
suté ǀ sóme ǀ stumási ǀ śáṃsat ǀ ukthā́ ǀ índrāya ǀ bráhma ǀ várdhanam ǀ yáthā ǀ ásat ǁ
asmai ǀ vayam ǀ yat ǀ vavāna ǀ tat ǀ viviṣmaḥ ǀ indrāya ǀ yaḥ ǀ naḥ ǀ pra-divaḥ ǀ apaḥ ǀ kariti kaḥ ǀ
sute ǀ some ǀ stumasi ǀ śaṃsat ǀ ukthā ǀ indrāya ǀ brahma ǀ vardhanam ǀ yathā ǀ asat ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.023.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.6.15.05
- Maṇḍala · Anuvāka · Ṛk
- 06.02.132
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.