Ṛk 6.74.2
Saṃhitā
सोमा॑रुद्रा॒ वि वृ॑हतं॒ विषू॑ची॒ममी॑वा॒ या नो॒ गय॑मावि॒वेश॑ ।
आ॒रे बा॑धेथां॒ निर्ऋ॑तिं परा॒चैर॒स्मे भ॒द्रा सौ॑श्रव॒सानि॑ संतु ॥
सोमारुद्रा वि वृहतं विषूचीम् अमीवा या नो गयम् आविवेश |
आरे बाधेथां निरृतिम् पराचैर् अस्मे भद्रा सौश्रवसानि सन्तु ||
sómārudrā ví vṛhatam víṣūcīmámīvā yā́ no gáyamāvivéśa ǀ
āré bādhethām nírṛtim parācáirasmé bhadrā́ sauśravasā́ni santu ǁ
somārudrā vi vṛhataṃ viṣūcīm amīvā yā no gayam āviveśa |
āre bādhethāṃ nirṛtim parācair asme bhadrā sauśravasāni santu ||
Padapāṭha
सोमा॑रुद्रा । वि । वृ॒ह॒त॒म् । विषू॑चीम् । अमी॑वा । या । नः॒ । गय॑म् । आ॒ऽवि॒वेश॑ ।
आ॒रे । बा॒धे॒था॒म् । निःऽऋ॑तिम् । प॒रा॒चैः । अ॒स्मे इति॑ । भ॒द्रा । सौ॒श्र॒व॒सानि॑ । स॒न्तु॒ ॥
सोमारुद्रा । वि । वृहतम् । विषूचीम् । अमीवा । या । नः । गयम् । आऽविवेश ।
आरे । बाधेथाम् । निःऽऋतिम् । पराचैः । अस्मे इति । भद्रा । सौश्रवसानि । सन्तु ॥
sómārudrā ǀ ví ǀ vṛhatam ǀ víṣūcīm ǀ ámīvā ǀ yā́ ǀ naḥ ǀ gáyam ǀ ā-vivéśa ǀ
āré ǀ bādhethām ǀ níḥ-ṛtim ǀ parācáiḥ ǀ asmé íti ǀ bhadrā́ ǀ sauśravasā́ni ǀ santu ǁ
somārudrā ǀ vi ǀ vṛhatam ǀ viṣūcīm ǀ amīvā ǀ yā ǀ naḥ ǀ gayam ǀ ā-viveśa ǀ
āre ǀ bādhethām ǀ niḥ-ṛtim ǀ parācaiḥ ǀ asme iti ǀ bhadrā ǀ sauśravasāni ǀ santu ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.074.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.1.18.02
- Maṇḍala · Anuvāka · Ṛk
- 06.06.097
- Devatā देवता
- Rudra, Soma
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.