Ṛk 6.74.3
Saṃhitā
सोमा॑रुद्रा यु॒वमे॒तान्य॒स्मे विश्वा॑ त॒नूषु॑ भेष॒जानि॑ धत्तं ।
अव॑ स्यतं मुं॒चतं॒ यन्नो॒ अस्ति॑ त॒नूषु॑ ब॒द्धं कृ॒तमेनो॑ अ॒स्मत् ॥
सोमारुद्रा युवम् एतान्य् अस्मे विश्वा तनूषु भेषजानि धत्तम् |
अव स्यतम् मुञ्चतं यन् नो अस्ति तनूषु बद्धं कृतम् एनो अस्मत् ||
sómārudrā yuvámetā́nyasmé víśvā tanū́ṣu bheṣajā́ni dhattam ǀ
áva syatam muñcátam yánno ásti tanū́ṣu baddhám kṛtáméno asmát ǁ
somārudrā yuvam etāny asme viśvā tanūṣu bheṣajāni dhattam |
ava syatam muñcataṃ yan no asti tanūṣu baddhaṃ kṛtam eno asmat ||
Padapāṭha
सोमा॑रुद्रा । यु॒वम् । ए॒तानि॑ । अ॒स्मे इति॑ । विश्वा॑ । त॒नूषु॑ । भे॒ष॒जानि॑ । ध॒त्त॒म् ।
अव॑ । स्य॒त॒म् । मु॒ञ्चत॑म् । यत् । नः॒ । अस्ति॑ । त॒नूषु॑ । ब॒द्धम् । कृ॒तम् । एनः॑ । अ॒स्मत् ॥
सोमारुद्रा । युवम् । एतानि । अस्मे इति । विश्वा । तनूषु । भेषजानि । धत्तम् ।
अव । स्यतम् । मुञ्चतम् । यत् । नः । अस्ति । तनूषु । बद्धम् । कृतम् । एनः । अस्मत् ॥
sómārudrā ǀ yuvám ǀ etā́ni ǀ asmé íti ǀ víśvā ǀ tanū́ṣu ǀ bheṣajā́ni ǀ dhattam ǀ
áva ǀ syatam ǀ muñcátam ǀ yát ǀ naḥ ǀ ásti ǀ tanū́ṣu ǀ baddhám ǀ kṛtám ǀ énaḥ ǀ asmát ǁ
somārudrā ǀ yuvam ǀ etāni ǀ asme iti ǀ viśvā ǀ tanūṣu ǀ bheṣajāni ǀ dhattam ǀ
ava ǀ syatam ǀ muñcatam ǀ yat ǀ naḥ ǀ asti ǀ tanūṣu ǀ baddham ǀ kṛtam ǀ enaḥ ǀ asmat ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.074.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.1.18.03
- Maṇḍala · Anuvāka · Ṛk
- 06.06.098
- Devatā देवता
- Rudra, Soma
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.