Ṛk 6.59.6
Saṃhitā
इंद्रा॑ग्नी अ॒पादि॒यं पूर्वागा॑त्प॒द्वती॑भ्यः ।
हि॒त्वी शिरो॑ जि॒ह्वया॒ वाव॑द॒च्चर॑त्त्रिं॒शत्प॒दा न्य॑क्रमीत् ॥
इन्द्राग्नी अपाद् इयम् पूर्वागात् पद्वतीभ्यः |
हित्वी शिरो जिह्वया वावदच् चरत् त्रिंशत् पदा न्य् अक्रमीत् ||
índrāgnī apā́diyám pū́rvā́gātpadvátībhyaḥ ǀ
hitvī́ śíro jihváyā vā́vadaccárattriṃśátpadā́ nyákramīt ǁ
indrāgnī apād iyam pūrvāgāt padvatībhyaḥ |
hitvī śiro jihvayā vāvadac carat triṃśat padā ny akramīt ||
Padapāṭha
इन्द्रा॑ग्नी॒ इति॑ । अ॒पात् । इ॒यम् । पूर्वा॑ । आ । अ॒गा॒त् । प॒त्ऽवती॑भ्यः ।
हि॒त्वी । शिरः॑ । जि॒ह्वया॑ । वाव॑दत् । चर॑त् । त्रिं॒शत् । प॒दा । नि । अ॒क्र॒मी॒त् ॥
इन्द्राग्नी इति । अपात् । इयम् । पूर्वा । आ । अगात् । पत्ऽवतीभ्यः ।
हित्वी । शिरः । जिह्वया । वावदत् । चरत् । त्रिंशत् । पदा । नि । अक्रमीत् ॥
índrāgnī íti ǀ apā́t ǀ iyám ǀ pū́rvā ǀ ā́ ǀ agāt ǀ pat-vátībhyaḥ ǀ
hitvī́ ǀ śíraḥ ǀ jihváyā ǀ vā́vadat ǀ cárat ǀ triṃśát ǀ padā́ ǀ ní ǀ akramīt ǁ
indrāgnī iti ǀ apāt ǀ iyam ǀ pūrvā ǀ ā ǀ agāt ǀ pat-vatībhyaḥ ǀ
hitvī ǀ śiraḥ ǀ jihvayā ǀ vāvadat ǀ carat ǀ triṃśat ǀ padā ǀ ni ǀ akramīt ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.059.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.8.26.01
- Maṇḍala · Anuvāka · Ṛk
- 06.05.096
- Devatā देवता
- Agni, Indra
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Bṛhatī, Anuṣṭubh
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.