Ṛk 6.59.5
Saṃhitā
इंद्रा॑ग्नी॒ को अ॒स्य वां॒ देवौ॒ मर्त॑श्चिकेतति ।
विषू॑चो॒ अश्वा॑न्युयुजा॒न ई॑यत॒ एकः॑ समा॒न आ रथे॑ ॥
इन्द्राग्नी को अस्य वां देवौ मर्तश् चिकेतति |
विषूचो अश्वान् युयुजान ईयत एकः समान आ रथे ||
índrāgnī kó asyá vām dévau mártaściketati ǀ
víṣūco áśvānyuyujāná īyata ékaḥ samāná ā́ ráthe ǁ
indrāgnī ko asya vāṃ devau martaś ciketati |
viṣūco aśvān yuyujāna īyata ekaḥ samāna ā rathe ||
Padapāṭha
इन्द्रा॑ग्नी॒ इति॑ । कः । अ॒स्य । वा॒म् । देवौ॑ । मर्तः॑ । चि॒के॒त॒ति॒ ।
विषू॑चः । अश्वा॑न् । यु॒यु॒जा॒नः । ई॒य॒ते॒ । एकः॑ । स॒मा॒ने । आ । रथे॑ ॥
इन्द्राग्नी इति । कः । अस्य । वाम् । देवौ । मर्तः । चिकेतति ।
विषूचः । अश्वान् । युयुजानः । ईयते । एकः । समाने । आ । रथे ॥
índrāgnī íti ǀ káḥ ǀ asyá ǀ vām ǀ dévau ǀ mártaḥ ǀ ciketati ǀ
víṣūcaḥ ǀ áśvān ǀ yuyujānáḥ ǀ īyate ǀ ékaḥ ǀ samāné ǀ ā́ ǀ ráthe ǁ
indrāgnī iti ǀ kaḥ ǀ asya ǀ vām ǀ devau ǀ martaḥ ǀ ciketati ǀ
viṣūcaḥ ǀ aśvān ǀ yuyujānaḥ ǀ īyate ǀ ekaḥ ǀ samāne ǀ ā ǀ rathe ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.059.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.8.25.05
- Maṇḍala · Anuvāka · Ṛk
- 06.05.095
- Devatā देवता
- Agni, Indra
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Bṛhatī, Anuṣṭubh
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.