Ṛk 6.7.5
Saṃhitā
वैश्वा॑नर॒ तव॒ तानि॑ व्र॒तानि॑ म॒हान्य॑ग्ने॒ नकि॒रा द॑धर्ष ।
यज्जाय॑मानः पि॒त्रोरु॒पस्थेऽविं॑दः के॒तुं व॒युने॒ष्वह्नां॑ ॥
वैश्वानर तव तानि व्रतानि महान्य् अग्ने नकिर् आ दधर्ष |
यज् जायमानः पित्रोर् उपस्थे ऽविन्दः केतुं वयुनेष्व् अह्नाम् ||
váiśvānara táva tā́ni vratā́ni mahā́nyagne nákirā́ dadharṣa ǀ
yájjā́yamānaḥ pitrórupásthé’vindaḥ ketúm vayúneṣváhnām ǁ
vaiśvānara tava tāni vratāni mahāny agne nakir ā dadharṣa |
yaj jāyamānaḥ pitror upasthe 'vindaḥ ketuṃ vayuneṣv ahnām ||
Padapāṭha
वैश्वा॑नर । तव॑ । तानि॑ । व्र॒तानि॑ । म॒हानि॑ । अ॒ग्ने॒ । नकिः॑ । आ । द॒ध॒र्ष॒ ।
यत् । जाय॑मानः । पि॒त्रोः । उ॒पऽस्थे॑ । अवि॑न्दः । के॒तुम् । व॒युने॑षु । अह्ना॑म् ॥
वैश्वानर । तव । तानि । व्रतानि । महानि । अग्ने । नकिः । आ । दधर्ष ।
यत् । जायमानः । पित्रोः । उपऽस्थे । अविन्दः । केतुम् । वयुनेषु । अह्नाम् ॥
váiśvānara ǀ táva ǀ tā́ni ǀ vratā́ni ǀ mahā́ni ǀ agne ǀ nákiḥ ǀ ā́ ǀ dadharṣa ǀ
yát ǀ jā́yamānaḥ ǀ pitróḥ ǀ upá-sthe ǀ ávindaḥ ǀ ketúm ǀ vayúneṣu ǀ áhnām ǁ
vaiśvānara ǀ tava ǀ tāni ǀ vratāni ǀ mahāni ǀ agne ǀ nakiḥ ǀ ā ǀ dadharṣa ǀ
yat ǀ jāyamānaḥ ǀ pitroḥ ǀ upa-sthe ǀ avindaḥ ǀ ketum ǀ vayuneṣu ǀ ahnām ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.007.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.5.09.05
- Maṇḍala · Anuvāka · Ṛk
- 06.01.059
- Devatā देवता
- Agni Vaiśvānara
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.